पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसे भगवच्छास्र काश्यपीये ज्ञानकाण्डे

अद्भुताः त्रिविधा

अद्भुतात्रिविधाः । दिव्या आन्तरिक्षा भौमाश्चेति । दिव्य ग्रहविकार ग्रहयुद्धाद्यनेकविधाः ।आन्तरिक्षाः परिवेषेन्द्रचापोल्कापाताशनिपातनिघतो1 पलवर्षगन्धर्वनगरधूमेन्द्रकेतुप्रतिसूर्यादयः2 । भौमाः चरस्थिरभवाः3 अनेकविधाः ।

त्रिविधाः जङ्गगमजा

तत्रोत्तमा मध्यमा अधमाश्धतेि त्रविधा जडागमजा । विद्वद्ब्राह्मणतपस्विषु कालदशस्वभावावरु६ट यदुष्टं तत्प्रवरम् । नागोमायुमहिषादिषु यदृष्टं तन्मध्यमम । पक्षिसर्पकमिकीटपतडादिष यत तज्जघन्यम ।

विविधाः स्थावरजाः

स्थावरजाः त्रिविधाः । प्रतिमादिषु प्रवराः । प्रासादादिषु मध्यमा वृक्षादिष्वधमाः । तत्र प्रतिमादिषु रोदनहसनज्वलनपरिवर्तनस्वेदरुधिरस्राव कृमिकीटपतङ्गतृणादयुद्भभवाज्वलनघूमादयः4 । प्रासादादिषु अप्रवेश्यमृगपक्षिसपदि प्रवेशनसर्पणारोहणाचलनपरिवर्तन्नोपसर्पणभितिकवाटोम .......... रासनशयना युधाम्बर5कूपाग्निहोत्रोपस्करविहारमक्षिकावल्मीकरक्तस्रीजननादयः । वृक्षादिषु पतनपरिवर्तनोपसर्पणफलपुष्पपत्रशाखादिविकाराद्यद्भुता भवन्ति ।

अद्भुतदर्शन दोषः, शान्तिप्रकारश्च

दिव्या आन्तरिक्षाश्च राजराष्ट्रविनाशाय । भौमा: तद्भूमेकानामातङ्गार्थ नाशानावृष्टितस्करपरचक्रमभयानि च सूचयन्ति । अतः शान्तिविधानमारभेत । दिव्यान्तरिक्षयोः ग्रहशान्तिविधानेनाभ्यच्र्य महाशान्तिं सप्ताहंहुत्वा देवेशं सहसैः 6साष्टभिः कलशैः संस्नाप्य महतीं पूजां कृत्वा ब्राह्मणान् अन्नेन परिवष्य हिरण्यगवाश्वादीन् दत्वा भगवतो महतीं पूजां कृत्वोत्सवमारभेत । भूमिप्रभवेषु देवेशमभ्यच्र्य शान्तिं सप्ताहं हुत्वा गुरवे दक्षिणां दद्यात् । ब्राह्मणान् भोजयित्वा पश्चादग्निषु शान्तिं जुहुयात् ।


1. W. उरुपवन, 2. W, सूर्योदयादयः, 3. M. च, 4. M. धूमिका फूताद्या, 5. ७. रूप, ६ ज.