पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३
नवमोऽध्यायः

विकृतरूपं पश्यति । तद् दृष्ट्वा निर्मयो भवेत् । पश्चात्विकृताकारं भूत पश्यति । तद्दृष्ट्वा निर्भयो भवेत् । ततो भगवतीं पश्यति । ता दृष्ट्वा मातृवन्मत्वा नमस्कुर्यात् । सैवं बदति ‘ वरं वृणीष्वे ' ति । एवमुक्तोऽपि मुहूर्त स्थित्वा पूर्वोक्तमन्त्रमष्टोतरशतं जप्त्वा भगवतीं ? प्रसीद प्रसीदेतेि पऽचोक्तवा वरं ब्रूयात् । यद्यत्कामयते1 तत्सर्वं सरस्वती ददाति ।

अकल्मषकामस्य शान्तिकामस्य च विधिः

अकल्मषकामः षट्त्रंशद्दलयुतं कुण्डं कृत्वा तिलेन रात्रिसूक्त द्वादशसङ्खया जुहोति । शान्तिकामः ऋत्विग्दलयुतं कुण्डं कृत्वा 2धतपद्मै बिल्वपत्रैर्वा3 रात्रिसूतं यद्देवादि पारमात्मिकमीझारादि वैष्णवं ब्राहा प्राजापत्यं दौर्ग विष्णुगायत्रीञ्च जुहुयात्4। तत्क्षणात सर्वपापं नश्यति । सर्वदोषाश् नश्यन्ति । यद्यत्करति तत्सर्वं विष्णुमभ्यच्र्य आघारं हुत्वा पश्चात् कुर्यात् । यस्मात् सर्वदेवमयी कपिला तस्मात् कापिलेन घृतेनैव जुहोति । सर्वशान्तिदं सर्वकामप्रदं पौण्डरीकानिविधानमिति कश्यपः ।।

इति श्रीवैखानसेभगवच्छास्रो कश्यपप्रोते ज्ञानकाण्डे पौण्डरीकाग्निविधानं नाम अष्टमोऽध्यायः ।।

॥अथ नवमोऽध्यायः॥

अद्भुतशान्तिविधिः

अथातोऽद्भुतशान्तिं व्याख्यास्यामः । अद्भुतान् मनुजानामपराधात् देवाः सृजन्ति ।


1. 8. सर्व, 2. स्व . कत्चेत्यारभ्य प्राजापत्यमित्यन्तं न दृश्यते, 3. M. रात्रि सूक्तमिति नास्ति, 4. M. जुहोति