पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

श्रीप्रसादप्रकारः

श्रियं पद्मप्रभा पद्माक्षीं पद्ममालाधरं पद्माऽसनां पद्महस्तं सुमुखीं सुकेशीं शुक्लाम्बरधरं सर्वाभरणभूषितां सुप्रभया ज्वलन्तीं सुवर्णकुम्भस्तनीं सुवर्णप्रकारां सुदन्तोष्ठीं सुभूलतां चिन्तयेत् । एवं बुद्धिस्थां कृत्वा पद्मै श्रीसूक्तन होमं कुर्यात् । एवं लक्षहोमेन श्रीः प्रत्यक्षा भवति । ता दृष्ट्वेष्टमर्थ लिप्सेत् । सेष्टं वरं ददाति श्रीः ।

राजश्रीकामस्य विधिः

राजश्रीकामो बिल्वफलेन जुहुयात् । देव्या ध्यानमात्रेणापि द्रयवान् भवति । किं पुनस्तदुपासनया ।

उत्तरफल्गुनीपूजा

तस्मादुत्तरफल्गुन्या यत्नतो देवीमभ्यच्र्य यो होमं कुर्यात् तस्य न दारिद्य भवति । पूर्ववदभ्यच्र्य एवं जुहोतीति विज्ञायते ।

इति श्रीवैखानसे भगवच्छाखे कश्यपप्रोक्त ज्ञानकाण्डे श्रीकामकर्तव्यविधिर्नाम सप्तमोऽध्यायः ।।

॥अथ अष्टमोऽध्यायः॥

विद्याकामस्य विधिः

2विद्याकामः स षण्णवतिदलं कुण्डं कृत्वा त्रिमधुराक्ताभिः अश्वत्थसमिद्भिः ब्राहं प्राजापत्यं 3वैघ्नं वैष्णवञ्च हुत्वा पश्चात् त्रिणेत्रिं विद्युहूपां हस्तद्वयेन कमलधरां उभाभ्यां हस्ताभ्यां वसुप्रदा सुमुखीं सुकेशीं पद्मासनस्थां मुक्ताभरण भूषितां प्रसादाभिमुखीं शुक्लवस्रधरो सुरूपं चिन्तयेत् । एवं ध्यात्वा सारस्वतं नित्यं द्वादशसहस्र हविष्याशी द्वादशरात्रं जुहोति । त्रयोदशाहे रात्रौ दीर्घ


1. W - प्राकारयुताम्. 2. MW - पुस्तके इतः पत्रपञ्चकं 12 to 16 गलितं, 3. M - वैश्वदेवं, 4. ख. उभाभ्यां वसुप्रभामिति पाठ .