पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
पञ्चमोऽध्यायः

स्साम्नाम् पुटमन्त्राः । अत्र पुंलिङ्गाः स्वारान्ताः स्त्रियो नमस्कारान्ताः नपुंसकाः शेषा इत्येतच्छान्तिकमिति ।

इति श्रीवैखानसे भगवच्छामे कश्यपप्रोते ज्ञानकाण्डे शान्तिकादि विमानादि भेदविधिर्नाम चतुर्थाऽध्यायः।।

अथ पञ्चमोऽध्यायः

पौण्डरीकप्रशंसा

1नारायणनियोगेन सर्वसिसृक्षुब्रह्मा भगवन्तं ध्यात्वाऽऽसीनः 2सहस्राब्दऽतीते हृत्पुण्डरीकं त्रिवेदिसहितं पद्माकृत्या एकमग्निं व्यक्तीभूतं 3पर्याप्ते दृष्ट्वा आनम्य स मुदा विरिञ्चोऽर्चयिवा तस्याग्नेर्मध्ये वेदान् ऋषीन् पितृन् भूतादीन् असृजत् । प्राच्यामाहवनीयं दक्षिणेऽन्वाहार्य प्रतीच्या गार्हप्त्यमुदीच्यामावसथ्यं मध्ये सभ्यमजनयत् । पश्चात् स्वयं भूर्भुवस्सु4वर्महर्जनोलोकेषु गार्हपत्यान्याहा यहवनीयावसथ्यसभ्यांश्च यथाक्रमेण प्रतिष्ठापयित्वा पश्चात् मुरुबाहूरुपादतो ब्राह्मणक्षत्रियविट्छूद्रान् क्रमेणासृजत् । तेषामाश्रमिणां ब्रह्मचारिणामेकोऽग्निः गहस्थानं 5त्रेताग्निः वानप्रस्थानां पञ्चाग्निरिति कल्पयित्वा पौण्डरीकाग्निं स्वयं सङ्गृह्य जपहोमस्वाध्यायादिभिर्यत्परं 6तज्जिज्ञासथाऽभ्यर्चथेत्।

एवं प्रकृते काले कदाचित् ऋषयो ब्रह्मलोके भगवन्तमभ्यच्र्य ध्यानेन नियतमानसं पद्मासने सुखासीनं देवं पितामहं दृष्ट्वा आनम्य प्रमुखे मरीच्यत्रि भृग्वादयोऽबुवन् ! 'भगवन् ! कमर्चयसि कैर्मन्त्रैः केनाग्निना जुहोषि तत्सर्व श्रोतुमिच्छाम ' इत्ययाचन्त । 7स्नेहाईमानसस्तान् 'पृथक् पृथग्वक्ष्यामि युष्मा भिश्चोदितं सर्व शृणुध्वमृषिसत्तमाः भगवन्तं विष्णुमर्चयामि चतुर्वेदमन्त्रैः 8वैदिकन


1. छ - नारायणध्यानयोगेन, घ - निलयेन. 2. ब - अष्टसहप्त, 3. भूतवराहं. 4.B - स्वर्महः, 5. घ. च - पञ्चनिच, 6. रूस - धर्मपरं, 7.B - सस्भिंत कृत्वा इत्यधिकं, 8. क - कोशे नास्ति, स्व. घ - ध्यानेन,