पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्रीवैखानसे भगवच्छाखे काश्यपीये ज्ञानकाण्डे

विधानेन पौण्डरीकाग्निं जुहोमी ' ति । एवमुक्ते ते सर्वे विस्मयोत्फुल्ल लोचनाः 'त्वया देव ! कथितमग्निमच्युतपूजार्थ दत्वाऽस्मास्वनुग्रहं कु ' र्वित्यवोचन्। तच्छूत्वा पितामहः ? सर्वतशान्तिकरं सर्वकामप्रदं पारमात्मिकं सर्व वेदमयमग्निं विष्णुपूजार्थं मुक्तिदं देवैरप्राप्यं गृहीते 'त्युक्त्वा तेभ्योऽदात्। तस्मादस्मिन्नग्नौ यद्यक्रियते तदमोघञ्चैव भवति । नाभिचारेिकवयादि प्रतिषिद्धम । स्मरणमात्रेणैवापगतपापो भवति किं पुनर्जपैहमैः । दृष्प्राप्यः पारमात्मिकोऽयमग्निः तस्मादजाग्निः सम्यक् योग्यैरेव सेवितव्यः । तस्मादग्निं प्रदक्षिण कत्वा विश्वमन्त्रेण प्रदक्षिणं प्रणामञ्च करोति यस्सोऽश्वमेधफलं प्राप्य विष्णुलोके महीयते । नित्यं स्वहृदि श्वेतवर्ण त्रिवेदिभिरलङ्कतं अष्टसहस्रदलयुतमिलाकृतिं ध्यात्वा तन्मध्ये सहस्रज्चालायुतमाग्नेयमण्डलं तन्मध्ये प्रणवं नित्यं प्रातः कालेऽभ्यस्य विधूतपापसङ्घातो विष्णुलोकं स गच्छति । प्रयाणकालेऽप्येवं स्मृत्वा शडखचक्रगदाधरः श्यामलाङ्गश्चतुर्भजो भूत्वा द्विजेन्द्रमारुह्य नमस्कृतः स्तूयमानः सुरगणैः सर्वान् लोकानतिक्रम्य विष्णुलोकं स गच्छति ।

पूर्ववद्धयात्वा वारुणं मण्डलं तन्मध्ये श्धताब्जं सहस्रदलयुतं तन्मध्ये 1चन्द्रबीजमादिष्ठं सानुस्वार प्रणयोभयसम्पुटित ध्यात्वा नित्य सायं प्रात योऽभ्यस्यतेि स 2संवत्सरमात्राद लहस्पतिसमो भवतेि । य इदं पर्वणि पर्वणि स्वाध्यायं करोतेि ब्रह्मलोकं स गच्छतेि ।।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोते ज्ञानकाण्डे अग्न्युत्पत्तिविधिनम पञ्चमोऽध्यायः ।।

अथ षष्ठोऽध्यायः

पौण्डरीकविधानम्

शुद्धे देशे गोमयेनोपलिप्य तत्र शुद्धाभिः सिकताभिरष्टादशाङ्गुलैः भ्रमी कृत्य ऊध्र्ववेदिविस्तारं भागोन्नतं द्विगोलकं मध्ये निम्नं वस्वङ्गुलं मध्यलेखाविस्ता


1. आदिबीजम् 2. संवत्सरं स्मृत्या