पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्रीवैखानसे भगवच्छासे काश्यपीये ज्ञानकाण्डे

अथ चतुर्थोऽध्यायः

शान्तिकलक्षणम्

अथातः शान्तिकम् । भूमौ रम्यं सुभिक्षं साम्राज्यं धर्मपुण्यजयान्वितं1 माध्वाचारनृभूयिष्ठं वैष्णवैस्सङ्कीर्ण वेदध्वनियुतं कृष्णमृगकपोतशुकशारिकामयूर हंसचक्रवाकैः मुख्यपक्षिभिः 2मुनिवरैरप्याकीर्ण ुशदर्भपलाशापामार्गतुलसीयुतं पुण्यनदीपर्वतयुतं क्षेत्र प्रागान्नतं सुगन्धं शङ्खगोक्षीरकुमुदाभमशर्करमपाषाण सुदर्शनमक्षारमकर्दमं3 स्रोतसा ्रिवृतं ूर्वापामार्गधातकीचिरमालिकासोमवकुल 4कदली कपित्थाश्धकणविष्णुक्रान्ताशोकतिमिशचन्दनागरुकोष्ठूशी रैलालबङ्गकर्णि कारनीपार्जुनासनजिल्वमातुलुङ्गाश्ध5गुणाबरसोमरा(?) वल्लीप्रकुड्यपताकाचैः कृदै परिवृतं शान्तिकं क्षेत्रमिति6

नलिनकरवस्तिक7 पद्मकपर्कताकृतिसर्वतोभद्रपञ्चवासन्तिकसोमच्छन्दनन्द्या वर्तश्रीप्रतिष्ठितचतुस्फुटादि प्रागद्वारं द्वादशावरणयुतं विमानम्8 । शैलं ध्रुवं बेरं शङ्खगोक्षीरकुमुदाभम् । कौतुकं रत्नहाटककृतम्। पुष्पं सौवर्ण नन्द्यावर्त तुलस्यादि चतुर्वर्णयुतम् । गान्धं चन्दनागरुकोष्ठुकुडुभम् । धूपं चन्दनागरुकरशुल मध्वाज्ययुतम् । दीपं कपूरयुतं कनिष्ठाग्रपरीणाहपिचुवर्तियुतं द्वादशाङ्गुलो न्ड्रयम्। अध्र्य सिद्धार्थककुशाग्रतिलतण्डुलदधिक्षीराम्बुक्षतयुतम्। वस्रनूर्ण 9पञ्चवर्णयुतमंशुकपट्टनिर्मितम् । हव्यं पायसकृसरगौल्याबकम् । जलं नादेयं वस्रोत्प्तम् । मुखवासं क्रमुकताम्बूलैलालघङ्गतक्कोलकपूरयुतम् । अगभरणं वज़ वैडूर्यमणिमुक्ताप्रवालमरकतादिभिरलङ्कतम् । समिद्विल्वपलाशाश्वत्थोदुम्बरदूर्वाः । होमद्रव्यं तिलसर्षपस्नेहयुतम् । घृतं गव्यम् । अग्निः पौण्डरीकः । मन्त्रः ऋग्यजु


1. दयान्वित. 2. मुनिगणैः 3. छ - क्षारकर्दम, ज, क्ष - अक्षारकर्दमं, 4. दलिद्धाखुकणैि. 5. य - मातुलिङ्गाश्च. छ - मातुलिङ्गगंगाश्च. म. टङ्गाल. 6, छ - शान्तिकं क्षेत्रमिति कुत्रापि न. 7. छ - महावद्य. 8. विमानं शैलज ध्रुव बेरमिति कादन्यत्र, न दृश्यते, 5, 3. - पश्चवर्णमिति नास्ति .