पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तृतीयोऽध्यायः

हैमवतम् । निषधाद्धेमकूटान्तं नैषधम् । नीलनिषघयोर्मध्ये मेरुः । तत्प्राक् पश्चिमसमुद्रादैिववैडूर्ये । चेतनीलयोर्मध्ये श्रेत. । श्वेतशतशृङ्गयोर्मध्ये शृङ्गः । शृङ्गादासमुद्राङ्गान्धर्वखण्ड इति ।

शाव . र्विशतिः कुशे 'त्रिंशत् क्रौञ्चशाल्मल्यो. पञ्चाशत् गोमेदे सप्ततिः पुष्करे नवतिः वर्षा इतेि विज्ञायते ।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्त ज्ञानकाण्डे भुवनखण्डविधिर्नाम द्वितीयोऽध्यायः ।।

अथ तृतीयोऽध्यायः ।।

भारतादिवर्षेषु पैशाचदेशाः

दर्दूरबर्बरमालवसिंहनशृङ्गिकदेशात्रेधत्येते भारतवर्षे पैशाचदेशाः । ते विप्रैर्न वस्तव्याः । सालमुङ्गन्धिकनैधायककुचुमारा इत्येते हैमवते । घाटहाराहाट कमुस्तोर्वर्य इत्येतेनैषधे ।** भानुकापहास्यौ दैविके । शाकुण्डवादुकमल्पदाक्षिणक ?) 2नीलाश्चेत्येते वैदूर्ये । साकुन्धारुणकपोतपिञ्जालभाग शातनभूतवासजेलायकवान गौलकवरिष्ठपञ्चभूमिकावासरक्षोहाश्चत्येते धेते । 3तैष्यप्रमर्दलम्भोमत्तस्रीवासाश्चेत्येते शृङ्गे । शाण्डिल्यधुन्धुमारकापोतबडबामुखा इत्येते गान्धर्वे न वस्तव्या विषया भवन्ति । शाके काकणिकं कुशे पद्मापहारितं क्रौञ्चे मुखतुलकशाण्डिल्यकैट भस्फोटामुखाः शाल्मले कासीसवैराग्यौ गोमेदे काकावासभुजावसौ पुष्करे दारुण (?) इत्येते विप्रैर्न वस्तव्या देशा भवन्तीति विज्ञायते ।।

इति श्रीवैखानसे भगवच्छात्रे कश्यपप्रोते ज्ञानकाण्डे विप्रवासानर्ह देशनिरूपणं नाम ततीयोऽध्यायः ।।


1.छ . सत्रिंशत्. ** मेरुप्रस्तापो न दृश्यते. 2.३ - निनाध. 3, स स -नैष्य