द्वीपविभागः
जम्बूशाककुशक्रौञ्चशाल्मलिगौमेदपुष्करा इति सप्तद्वीपाः मेदिन्याः । क्षारक्षीरघृतदधिमद्विक्षुरसशीतोदधय इत्येते यथाक्रमेण द्विपान्तरे सप्तोदधय इति ।
सप्तोर्ध्वलोकाः
वसवर्महर्जनस्तपस्सत्यलोका इति यथाक्रमेणैकैकस्योपरेि लोका भवन्ति ।
सप्तपाताला: -कपिलावासश्च
भूमेरधस्तात् 1अतलवितलसुतलप्रतलतलातलरसातलमहातला इत्येते पातालाः । ततः परमव्यतं तस्मिन्नव्यते प्रवालाभरिमलोचनो 2जटाधरः निरायुधः शुकपिञ्छाम्बरधरः केयूरहारप्रलम्बयज्ञोपवीती श्रीवत्साङ्कश्चतुर्भुजो ब्राहोणासने नासीनो नित्यमनाद्यमक्षरमरूपमचिन्त्यं कूटस्थं यत्परं तजिज्ञासया ध्यानयुक्तः कपिलो वसतीति तत्त्वदर्शिनो वदन्ति ।
जम्बूद्वीपः
दक्षिणोत्तरतः पूर्वपश्चिमतश्चाशीतिसहस्रकोटियोजनो जम्बूद्वीपः द्वात्रिं शत्कोटियोजनपृथिव्या घनविस्तारसमावृता भूमिः । क्षारसमुद्रण द्वीपादद्वीपाद् द्विगुणितं बाह्याद्वाह्य समुद्राच्च समुद्र3 शीतोदधितश्च बाह्यमप्येवं लोकाल्लोकान्तरं तावत्प्रमाणं विवरं सर्वतः परिवृतमित्येतदेकमण्डलम् । अन्यान्यनेककोट्यण्डानीति वदन्ति।
जम्बूद्वीपखण्डाः
जम्बूद्वीप भारतहैमवत्तनैषधमेरुदैववैडूर्यश्धङ्गान्धर्ववर्षाश्चएति दक्षिणाकुतरान्तं नव स्वण्डा भवन्ति ।
सीमापर्वताः- भारतवर्षः
हिमवद्धेमनिषधनीलश्चेतशतशृङ्गवति षडेते सीमापर्वताः 4पूर्वापरजला शयौ वेिगाह्य प्रतिष्ठिताः । हिमाद्रेर्दक्षिणमासमुद्रान्तं भारतम् । हिमवद्धेमयोर्मध्ये
1. क - अतलवेितलप्रतनधातकविद्रावक्सफुल् लाङ्गमहातला इति, 2. A जगदाधार, 3. च - शीतोद तद्वाह्य. 4. - पूर्वापराधमकुटान्त.