वक्ष्यामि । तस्मादेतस्मिन् यत्र यत्र । होमो विधीयते तत्र सर्वत्राग्न्याधार1 स्विष्टकृत्प्रभृत्यन्तहोमश्च तद्वैखानससूत्रोक्तविधानेनैव कर्तव्यः । तथैव तद्विधानेन निषेकादिसंस्कारैः संस्कृतान् विप्रानाचार्यस्थापकादीनृत्विजोऽर्चकांश्च2 वरयेत् ।
अर्चनस्य द्वैविद्ध्यम्
द्विविध तथर्चनमाख्यातममूर्त समूर्तञ्चेति । 3तदित्थमग्नौ हुतमभूर्त समूर्त तद्भिवम्बेऽर्चनम्4 । समूर्ते चक्षुर्मनसोः प्रीतिः सदा संस्मृतिश्च5 । ताभ्यां भक्तिश्रद्धे स्याताम् । श्रद्धाभक्तियुतस्यैव सर्वसंसिद्धिः ।
समूर्तार्चनप्रशंसा
आलये समूर्तार्चनं बल्युत्सवायुपचारयोगात् सम्पूर्णम् । यजमानाभावेऽप्य विच्छेदान्नित्यञ्च । एतदैहिकामुष्मिकभुक्तिमुक्तिफलप्रदं सार्वकालिकं शान्तिकपौष्टिकभेदन द्विविधं भवति । सर्वशान्त्यर्थ शान्तिकं सर्वपुष्ट्यर्थ पौष्टिकम । 6इत्येतदनष्ठानक्रम सर्व समाहिता मुनयः शृण्वन्त्यिति कश्यपः ।
इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोते ज्ञानकाण्डे
प्रथमाऽध्यायः ।।
॥ अथ द्वितीयोऽध्यायः ।।
शान्तिकादिविधानम् भुवनखण्डविधि:
अथ 7भुवनखण्डविधिं व्याख्यास्यामः । इमे लोकाः फलानां 8साधनानि । ततः परेष्वेव फलावाप्तःि । तस्मात् अस्मिन् लोके शुद्धे देशे मनोरमे कर्माऽरभेत ।
1. ध. . आघारादीत्येव. म - आज्याघार. 2. म - यजमान इत्यधिक 3. कादन्ये - तदर्थ. 4, म - पूजनम्. 5. म - संस्थितिश्च. 6. क - एतत्सर्वं सम मूहित्वा मुनयः कुर्वन्त्विति. 7. स - शान्तिकानि, 8. कादन्ये, साधतियः परेष्वेव ?