पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः

ॐ नमो वेङ्कटेशाय

श्रीमते विखनसे नमः

भ्रृग्वत्रिमरीचिकश्यपेभ्यो नमः

श्रीवैखानसे भगवच्छाझे काश्यपीये ज्ञानकाण्डः

शुक्लाम्बरधरं विष्णु शशिवर्ण चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ।।

विष्वक्सेनः स्मृतो नेता भगवान् शुद्धिकर्मणः ।
तस्मान्नान्यमुपासीत कर्मणा विघ्नशान्तये ।।

श्रौतस्मार्तादिकं कर्म निखिलं येन सूत्रितम् ।
तस्मै समस्तवेदार्थविदे विखनसे नमः ।।

1शिष्या हि भृग्वत्रिमरीचिमुख्याः शुश्रूषया यस्य सदागमेषु ।
विशारदा वंशकरा बभूवुः तमद्य वन्दे विखनोमुनीन्द्रम् ।।

॥अथ प्रथमोऽध्यायः॥

ऋषिप्रश्नोत्तरम्

हरिः ओम् ।। कश्यपमाश्रमे समासीनं सर्ववेदक्तारं सर्वशास्त्रार्थ तत्त्वज्ञमृषिं 2सुप्रसन्नमभिगम्य ' भगवन ! केन विधानेन कैर्मन्त्रैः कं देवमर्चयन्त परम पद गच्छेयु ' रिति सर्वभूतहिते रताः मुनयोऽपृच्छन् । स तेभ्यः प्राह


1. क - पुस्तकेऽधिकं. 2. ग - प्रसन्न