पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५

विशिष्टतापत्रयशालिनि । ' सर्वपापानि वें प्राहः कटस्तद्दाह उच्यते ' इति वेङ्कटपदनिर्वचनानुरोधेन कटशब्दस्य दाहपरत्वादयमेवार्थ । सदाचे दानवैः सहिते दानवशब्दस्य दान्व इतेि व्यत्ययः छान्दसः । दानवैः ऐहिकपुरुषार्थ विरोधिभिः आमुष्मिकपुरुषार्थविरोधिभिर्वा सहिते सति । शिरिम्बिठस्य श्रीपीठस्य श्रीनिवासस्येति यावत । अत्र शिरिमिति बेिठस्येति च व्यत्ययः छान्दसः । गिरिं वेङ्कटाचलं गच्छ । उक्तसर्वानर्थपरिहाराय गच्छेत्यर्थ । तत्र गमनमात्रेण कथं तत्परिहार इत्याशङ्कायामाह । शिरेिम्बिठस्य श्रीनिवासस्य सत्वभिः पुरुषः सर्वोपचारक्रियानिरतैः परुकैः सदा सन्निधानवर्तिभिः परमै कान्तिभिः अन्तरङ्गपुरुपैरिति यावत् । शिरिम्बिठस्येत्युभयत्रान्वयः । सत्वभिरिति दयत्ययः छान्दसः । तेभिः तैः तथात्वेन लोकशारुपयो. प्रसिद्धेः तदीयैरेित्यर्थ अत्रापि व्यत्ययः छान्दसः । त्वा त्वा चातयामसि अनिष्टनिवारण याचन्तं कारयामः । भगवतः श्रीनिवासस्य सन्निधो तदीयैः अनिष्टनिवारणप्रार्थना कारयितुमिच्छाम इति यावत् । चते, चदे, याचने ' (भ्वादिः पर.) इतेि धातोः ण्यन्तात् लडुत्तमपुरुषबहुवचनम् । ' इदन्तो म ' सीति (पाणनि ७-१-४६) इकार छान्दसः । ' अत्रान्तादिसंसारप्रवाहसमापतितानिष्टनिवारणकामका पुरुषाः श्रीवेङ्कटचलं गत्वा तन्निवासरसिकस्य भगवतः श्रीनिवासस्य सन्निधौ सर्वोपचारक्रियानेिरतान् सदा सन्निधानवर्तिनः परमैकान्तिनः अन्तरङ्गपुरुषान् तदीयान भगवतः श्रीनिवासस्य सन्निधौ मदीयामनिष्टनेिवारणप्रार्थनां श्रावय तेति प्रार्थयन्ते । ते च महाभागाः तथा तस्य भगवतः श्रीनिवासस्य सन्निधौ एकान्तसेवाद्यवसरे च आपन्नानामापन्निवारणप्रार्थनां श्रावयन्ते । स च परमदयालुः भगवानन्तरङ्गपुरुपमुखात् ता श्रुत्वा अनिष्टनिवारणं भक्तानामनुपदमेव करोतीति सम्प्रदाय:। अत्र ' त्वं वेडगटाचल गत्वा भगवन्तं तदीयानाराधकमहाभागान श्रीवैखानसान द्वारीकत्य अनिष्टनिवारण या ' चेति विधिर्विवक्षितः । अत्र ' अरायि काणे विकटे गिरिं गच्छेति तं विदु, एवं वेदमयः साक्षाङ्गिरीन्द्रः पन्नगाचलः ' इति भविष्यपूराणान्तर्गतश्रीवेङ्कटाचल माहात्म्यपरभागः अयं मन्त्रः श्रीवेङ्कटाचलपर इत्युपबृहयति । ' इतिहासपुराणाभ्या बेद समुपबृहयेत्।