पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४

संहितान्तराणीवेयमपि संहिता मन्त्रपाठक्रमं नानुख्धे । तथाऽऽत्र मन्त्रप्रतीका अपि तत्र तत्र भिन्नानुपूर्वीवन्तश्च दृश्यन्ते । तद्विचारस्त्चस्माभि मन्त्रभाष्यमुद्रणावसरे परामश्य निरूपयिष्यते ।

अत्राय सङ्ग्रह:--

अभ्यर्हिता ह्यारादुपकारकक्रिया सन्निपत्योपकारकक्रियात इत्यत्र न विसंवादः । बहूकुरुते ह्यावधिस्थानापन्नां क्रियां संसिद्धिसम्पादकतया शास्त्रम् । तदाह्यभ्यर्हिता िक्रयामलुहुस्ते कैमुत्रिकन्यायोऽपि । असति बाधके समानाधारविषय कज्ञानक्रिययोः भवत्यविनाभावः । सोऽपि दरीदृश्यते ह्यन्वयतो व्यतिरेरकतश्च । अद्वारकत्वसद्वारकत्वाभ्यां हि विशेष । स च व्यक्तीभवति चरमकाष्ठायामू ! अनुभूयते च रागहसनादिषु तथा । अतश्चरमपर्वतापन्न ज्ञानं नान्तरा स्थास्यति । क्रियायोगेन नानैकान्तिकता अत्र । सैव परिपूर्ण शेषवृत्तिः । तथैव भाष्यकारः । अतस्तदत्रैव परिसमाप्यते । तथैवानुगृह्माति भगवान् श्रीविखना महर्षिः । इत्थं ज्ञानस्य क्रियायोगे परिसमाप्तौ तात्पर्यादन्वर्थत ज्ञानकाण्ड इत्याख्याया इति साधारण्येन सङ्गृहीतो ग्रन्थपरिचयः विद्वद्भ्यः उपायनी क्रियते ।

किञ्च ' अरायि काणे विकटे गिरिं गच्छ सदान्वे शिरिम्बिठस्य सत्वभिः । तेभिष्ट्वा चातयामसि ' (ऋक् संहिता म. १०. १५५ मं. १.) इत्यादि श्रुत्युपार्गीयमानवैभवस्य श्रीमदखिलाण्डकोटिब्रह्माण्डनायकस्य श्रियःपत्यु परब्रह्मणः परमपुरुषस्य श्रीवेङ्कटाद्रिशिखरशेखरायमाणस्य वैखानसमुनिश्रेष्ठ पूजिताङ्कन्नियुगस्य श्रीश्रीनिवासस्य अर्चावतारस्य आराधनादिकमिदमेव शास्त्र मनुसृत्य सदा प्रचलतीत्यतः शास्रास्यास्य महिमातिशयप्रकटने प्रमाणान्तरं नापेक्ष्यते । ऋगियञ्च महद्भिव्यख्यायते यथा वेदपुरुषः पुरुषार्थ कामुकमुद्दिश्यात्र हितमुपदिशति । हे पुरुषार्थकामुक । अत्र सन्दर्भानुरोधातू त्वयीति शेषः । त्वयेि अरायि रैशतब्दः ऐश्वर्यवाची ऐहिकैश्वर्चरहिते अमुष्मिकैन्धर्चरहिते वा । काणे बाह्यद्दष्टिशून्ये आन्तरद्दष्टिशून्ये वा ? विकटे