पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३

ज्यादाश्रयनामविप्रनामादिकं ताम्रपत्रतले लिखित्वाऽर्पयित्वा ददे ' दिति (१४ अध्याये) ।

६. त्तापहारनिम्दा यथा – “ सुरविप्रक्षेचं गोष्पदं वापि यो हन्यात् त्रिसप्तनरकान् घोरान् गत्वा भूयः तिरश्रां गतिसहस्रमवाप्नुयात् । तस्मात् सर्वप्रथत्नेन विषवह्निसमं राजा सुरब्राह्मणक्तं परिहरेदिति विज्ञायते ' इति (१७ अध्याये) ।

७. दक्षतस्य नाशापहारादिषु पालने फलविशेषकथनं यथा-- ' यत्ना दप्येतत्पालनमुपर्यधिकवर्धनं वा यः कुर्यात् सोऽपि प्रथमेष्टकादि सर्वकर्मफलं लभते " इति (६८ अध्याये) ।

८. भगवतो विभवावतारनिमित्तोपदेशो यथा -- ' यदा ग्लानिः धर्मस्य परिपालनाय नारायणाद्भगवतः प्रत्यंशरूपाणि युगे युगे प्रजातानि भवन्ति । तानि रूपाणि संस्थाप्यार्चये ? दितेि (३६ अध्याये) ।

९. महर्षेः सहजवाङ्माधुरी यथाः– ‘इन्दिरेशस्य मन्दिरं सुन्दरं कृत्वा इति बालकै वालुकाकल्पितमप्यघौघध्वंसकृत् ' इत्यादि (२७ अध्याये) ।

१०. ग्रन्थान्तरसंवादो यथाः-- ' श्रुति, श्रुतयो वदन्ति, इति ब्राह्मणम् केचित्, अन्ये, इति भृगुः, इत्यङ्गिरा, इत्यात्रेयः इति भृग्वत्रिमरीच्यादय, ब्रह्मयादिनो वदन्ति, ब्रह्मा चाशंसत् ' इत्यादयः सन्दृश्यन्ते । तद्विवरणजन्तु ग्रन्थविस्तरभियानात्र विलिख्यते ।

११. पिष्टपशुसाध्यः विष्णुयागोऽत्र प्रसिद्धि (९९ अध्याये) । तथा काम्यफल्पेषु सर्वार्थसाधनः पौण्डरीकफल्प उपदिष्टः (५-८ अध्यायेषु) । तथा (१०६-१०८ अध्यायेषु)।

अत्रोक्तप्रकारस्येव भावतो नित्यार्चनस्य वैखानसमहाजनेषु वर्तते स्फारः प्रचारः ।