पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२

यित्वा मदच सम्प्रतिष्ठापये ? दिति वाच्ये वैपरीत्योक्तिः मन्दिरे अवश्याच प्रतिष्ठाज्ञापनाय * भवापवग भ्रमतो यथा भवे ' दितिव दिति ।

(दीपिकादीपिनी टिप्पणी -क्रमसन्दर्भश्च)

४. आलथरक्षणार्थ विविधवतिकल्पनप्रकारः उपदिश्यते । यथा तत्र बहुशः तूष्णीं कर्षयित्वा बीजानुप्त्वा पुरतस्तत्क्रममार्गेण भोगैश्वर्यवशादर्चन स्नपनोत्सवबल्यर्थमेतावत् पुष्पगन्धानुलेपनार्थमेतावत् विष्णुपञ्चदिनपूजार्थमर्धन दक्षिणार्थमेतावत् शुश्रूषाकारिणामेतावत् वादित्रजीविनां भक्तानामतिथीनामेतावत् शिष्याणांमध्येतृणामेतावत् अप्सरसां गायकनर्तकवादनकानां विपऽचीरववादिनां मर्दलकानामेतावत् खण्डस्फुटितनिवृत्यर्थं नवकर्मक्रियां प्रत्युपकारिणां दानार्थ मेतावदितेि निश्चित्य तं सर्वं पूर्वक्ताम्रपत्रे अर्पयित्वा सीमाविनिर्णय कृत्वा आचार्यमर्चकं वा वस्राङ्गुलीयककुण्डलादिभिरलङ्कत्य तद्धस्ते सोदकं दद्यात् । एतत्सर्वेषामेव भव ? तीतेि (२१ अध्याये) अयमेव विषयः पुनर्दाढ्ययोपन्यस्यते अन्यत्र । यथा “ प्रतिष्ठान्तप्रभृति नित्यमहीनमविच्छिन्ने समग्रे चिरकालार्चनं यथा गच्छेत् तथा दिर्घस्थितिमविरोधात् समवेक्ष्य नानाविधभूमिभोगान् अत्यन्तपऽकलान यत्नेन भगवत्पूजनार्थं समवेक्ष्य नित्यदक्षिणार्थञ्च कल्पयित्वा देवस्य परिच्छदांश्च दत्त्वा तथैव चिरकालं नित्यार्चनं कारयेत । चिरकालाचनेन अभीष्टान् सर्वान् कामान् चिरमवाप्नोति । तथा भोगम् । अज्ञानादर्थलोभाद्वा न कुर्यात् चेत् महादोषो भवेत् । देवार्थ कल्पितं हिरण्यपशुभूम्यादि सर्वमन्यत् द्रव्यऽच विष्णोरेिदमिति सञ्चिन्त्य आचार्यहस्ते अर्चकहस्ते वा जलेनैव दद्यात । तत्सर्वं विष्णोर्दतमेव भवेत् ? इति (६८ अध्याये) ।

५. विप्रेभ्यो ग्रामगृहादिदानप्रकारोपदेशो यथा-- सर्वदेवमयं तेजो वैष्णवं तद्विप्ररूप ? मितीत्यारभ्य । सुप्रसन्नान् वैष्णवान् विप्रानाहूय देवक्ता नभ्यच्र्य तेभ्यो नृपाज्ञया प्रामादि प्रान्तानभिज्ञाप्य अनुमान्य स्थलवल्मीकाङ्घ्र पारामतटाकरूदनद्युपकुल्यादिभिः सीमां विनिश्चित्य तत्र तुषाङ्गारशर्करायो मलसिकतादीन् खनित्चाऽर्पयित्वा करेणुताऽवयुत्य च विख्याप्य राज्ञः साम्रा