पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११

योगादि सहपाठादर्शनात् । वैखानसानुवर्तनाऽच्च । तत्कतमा वेिधामवलम्ब्यामीषा प्रामाण्यमुच्यते ? मन्वत्रिभार्गवादिवत् नारदीयादिवच्च धर्मशास्रतयैव तेषामपि प्रामाण्यम् । अष्टादशपरेिगणनस्योपलक्षणतायाः प्रामाणिकैरभ्युपगमात् । स्मृत्य न्तरेषु देवात्सवदिप्रपञ्चनं नास्तीति चेत् । मा भूत् प्रपञ्चनम् । स्वरूपं तावदनुज्ञातं तत्प्रपञ्चनपराणा 'मिति (१९५ पुटे) ।

विशेषतश्चास्मिन ज्ञानकाण्डे।

१. वास्तुविधानव्याख्यावसरे ‘तत्र वैष्णवं ब्राह्म रौद्रं गारुडं भौतिकमासुर राक्षसं पैशाचमिति नर्वाविधो देश : । तत्र रूढतरूजन्तुगन्धरसैः परीक्ष्याहरेत् । (११ अध्याये) इत्यध्यायेनोक्तं वस्तु अपूर्वमतिमनोहरमुपलभ्यते । प्रकारान्तरेण सवादस्त्वस्य चतुर्धा देशविभागाः ' तोल्काप्पिय ' (तोल्काप्पिय) मिति द्रामिडलक्षणग्रन्थे दृश्यते ।

२. आलयं निर्मित्सुः यथा स्वं रेिक्थं विभजेत तत्प्रकार उपदिश्यते । 'स्वार्थे त्रिभागं कृत्वा एकं कुटुम्बभरणार्थमाहृत्य द्विभागं दत्वा तेनैव विधानेन विमानमुपक ' ल्प्येत्यादि (२१ अध्याये) ।

३. अनाव्यस्यापि परहस्तैः याच्ऊालब्धाथैश्च भगवन्मन्दिरनिर्माणे अनुमतिर्दीयते । यथा ' अशक्तश्चत् स्वयं सम्पादयितु राजा आढ्यैः ग्राममुख्यै वणिभिरनुलौमैश्च कारये ' दिति (२१ अध्याये) । तथा ' पूर्वमेव सुपर्याप्तं भोगं कृत्वा बालागारे भगवन्तं प्रतिष्ठाप्यारम्भणं यक्तत्सामृतं बालागार वेिना विमानमात्रमेव कत्वा स्वाथैः याच्यालयाथैश्च कत्या बेरादीन फल्पयेदेतद्धार कमित्येतयोरेरकमालम्ब्यारभेत ? इतेि (२१ अध्याये) ।

अयमेव हारकपक्षः श्रीभागवते । ' मदचाँ सम्प्रतिष्ठाप्य मन्दिर कारयेत् दृढम् ' (स्कं. ११-१७-५०) इत्यत्र परामृश्यते । इदञ्च रहस्यमद्यावधि व्याख्यातृभि: न परामृष्टमिव भातेि । यतोऽत्र काचन व्याख्या “मन्दिरं कार