पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०

अत्र ईश्वरसंहिताश्रीप्रश्नसंहितादिषु व्यक्तम् ।

आनन्दसंहितायाम् :

वैखानसकुले : जात : पाञ्चरात्रेण दीक्षित: ।
न दीक्षितो न जातो वै स वै देवलकः स्मृतः ।
पाञ्चरात्रविधानज्ञो दीक्षाविरहितोऽर्चकः ।

कल्पदेवलक इति दीक्षारहितपाञ्चरात्रोक्ताराधनस्य निषेधात श्रीनित्योक्ताराधनस्य पाञ्चरात्रमूलकत्वेनोक्तत्चात्तदर्थपञ्चसंस्करस्यैव सर्वरप्यङ्गी करात तस्य दीक्षात्वमवश्याश्रयणीयम् ।

दिक्षाशब्दस्थाने शङ्खचक्रतिभुजान्गृहीयादन्यसूत्रिण 'इति शङ्खचक्रा ङ्कनकथनाश्च तदभावः स्पष्टमवसीयते | तापविधायकानां पञ्चसंस्कारान्तर्गतताप परत्वेन तदतिरिक्तकवलतापविधिः तत्प्रयोगविधिरित्यादिकं नास्ति । दीक्षा शब्दस्य सङ्कोचे प्रमाणाभावः । सामान्ये पक्षपातात् । एतेषु नाविश्वसितव्यम् । बहुष्वद्यापि दर्शनात् । न्यायपरिशुद्धिश्रीपाञ्चरात्ररक्षादिधूदाहरणाच्च । एत द्विरोधिवचनानि पूर्वापराप्रदर्शनात्कुत्राप्यनुदाहरणात्सच्चरित्ररक्षायामदिकारावास्योरिव सुदर्शनादिधारणविधानाधिकारे अनुपन्यासाच्य शङ्कास्पदानि । सामान्यप्रकृतवचनानि च उत्सार्गापवादन्यायात् ' सात्वतं विधि ' मिति विशेषवचनदर्शनाच्च सकुचितानि । वचनाभावेऽपि विशेषविषय आचार एव सच्चरित्ररक्षोक्तन्यायेन शान्तविरोधः स्वविषयंव्यवस्थापयति । नित्यत्वमर्चनाडगत्वच्च अधिकारेिभेदप्रयोग भेदनियतमिति न हानिः । मुमुक्ष्वधिकृतानि पञ्च संस्कारवचनानि उभयप्रधानान् वैखानसान् नाधिकुर्वते ' इति ।

अतश्च वैदिकाधिकारिण्यस्त्वेता : संहिता : भवन्ति ।

संहितानामासां विद्यास्थानेषु कुत्र वा अनुप्रवेश इत्याशङ्कय समृतित्वेन प्रामाण्यं निरधारेि न्यायपरिशुद्धौ । यथा 'ननु च भार्गवादीनि न तावत् कल्पसूत्राणि तथाऽनभ्युपगमात् अप्रसिद्धेः अयुतेश्च । न स्मृत्यन्तराणि । मन्वादिष्वपाठात् तद्वत्प्रसिद्धभावाच्च ! न च स्वतन्त्रतन्त्रान्तराणि । साङ्ख्य