पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैदिक 'मित्यनेन बुभुक्ष्णां मुमुक्षुणाञ्च ग्निहोत्रफलसाद्यनत्वमपि वैखानसार्चनस्य निरूप्यते सूत्रकारैरेव । 'यज्ञेषु विहीनां तत्सम्पूर्ण भव 'तीति (कश्यपेनापि 'अतस्तद्ग्रामवासिनो यजमानस्य राष्ट्रस्य च प्र.-४-१३) । तथा सामान्यमग्निहोत्र 'मिति (काश्यपः २५ अध्याये) ।तथा तेनैवान्यत्र ' तस्मादालये विधिना िण्णोः ित्यार्चनमनाहिताग्नीनामग्निहोत्रसमादेतच्याग्निहोत्रफलं ददाति । आहिताग्नीनामप्येतत्सर्वप्रायश्चित्तहेतुकं सर्वकामावाप्त्यर्थञ्च द्वितीयं भवति । यतो यजमानमरणेऽप्यालयार्चनं भूम्यामन्यैरविच्छिन्ने प्रवत्यते । ततः शाश्वतं तिष्ठेत् । एतन्नित्यं परमं पुण्यं भक्त्या यत्नतः कुर्यात् । प्रामादिषु चैतद्वास्तुनिवासिनो सामान्यमग्निहोत्रं सर्वसम्पत्करमिति ब्रह्मा चाऽशंसत् ' इति । (काश्यप. १ अध्याये)

'वैदिकै' रिति वैखानससूत्रोक्तवैदिकसकलसंस्कारशालिभिरित्युक्तं भवति । उक्तञ्च वैखानसान् प्रस्तुत्य श्रीमद्वेङ्कटनाथवेदान्तदेशिकेन ' दृश्यन्ते होते वंशपरम्परया वेदमधीयानाः वैखानससूत्रोक्तवैदिकसकलसंस्कारशालिनः वर्णाश्रमधर्म कर्मठाः भगवदेकान्ताः ब्राह्मणाः ’ इति (न्यायपरिशुद्धौ शब्दखण्डे १ आहिके १९६ पुटे श्रीरङ्गमुद्रणे)।

किऽच वैखानसपाञ्चरात्रशास्रयोः प्रक्रियाभेद इव 'वैदिकैः दीक्षितैः ' इति प्रतिनियताधिरिकत्वस्यापि सिद्धत्वात वैदिकशब्दो दीक्षितेतरत्वमभिदधाति । एवञ्च पाञ्चरात्रशास्त्रस्य असाधारण्येन पञ्चसंस्कारदीक्षाया विहितत्वेन पाञ्चरात्र शाम्रोक्तताद्दशदीक्षाविरहितैरित्यर्थान्तरञ्च ' वैदिकै ' रेित्यनेन सिद्धयति । उक्तञ्च निगमान्तमहादेशिकेनान्यत्र ।

त्वां पाञ्चरात्रिकनयेन पृथग्विधेन वैखानसेन च पथा नियताधिकाराः । संज्ञाविशेषनियमेन समर्चयन्तः प्रीत्या नयन्ति फलवन्ति दिनानि घन्या:'

इति (शरणागतिदीपिका श्लो ३२)

उक्तञ्च श्रीमद्भिः गोष्ठीपुराभिजनै : ' विष्णुतन्त्रविभाग प्रकरणे वैखानसादभेदकत्वेन दीक्षायोग उक्तः । दीक्षा पञ्चसंस्काररूपाऽपीति ।