पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृहे देवाऽयतने वा ? इति सूत्रादिदमर्चनं गृहार्चनमालयार्चनमिति द्वेधा अनुष्ठीयते । गृहेषु गृहिभिः आलयेषु तदधिकारिभिश्च । तद्विस्तरस्तु व्याख्यातः यथा

‘आत्मार्थं वा परार्थ वा गृहे देवाऽलयेऽपि वा ।
अर्चनं वासुदेवस्य लक्षकोटिगुणं भवेत् ।
उत्कष्टः परशब्दोऽयं परार्थो मोक्षवाचकः ।
मुमुक्षुणां मोक्षदानात् परार्थ इति कथ्यते ।
स्वार्थं गृहार्घनं प्रोक्तं परार्थ त्वालयार्चनम् ।
परार्थ स्याज्जाच्चक्षुः स्वार्थ स्यात् गृहदीपिका ' इति ।

(अर्चनानवनीते २ पुटे)


गृहार्चन्नन्तु चरितानुगृहीतत्वेन आलयार्चनमेवात्र संहितासु प्रपञ्चयते । इदं पुनरर्चन द्वेधा त्रेधा वा बिभक्तं परिदृश्यते । “ वैखानसं पाञ्चरात्र 'मित्याद्ये वैखानसं पाञ्चरात्रं भागवतमिति द्वितीये च स विभागो ज्ञेयः । यथा काश्यपीये वैखानसं पाञ्चरात्रमिति विधानद्वयं विष्णोस्तन्त्रम् । वैखानसं सौम्यमाग्नेयं पाञ्चरात्रम ? इति । (१०५ अध्याये) यथा वा मरीचिसंहितायां विमानार्चनाकल्पे वैखानसं वैदिकं वैदिकैरर्चितमैहेिकामूमिकफलप्रदं पाञ्चरात्रमाग्नेयमवैदिक मामुष्मिकफलप्रदम् । सौम्यं सर्वत्र सम्पूज्य ' मितेि (७७ पटले) तथा क्रियाधिकारे भृगुः ।

वैखानसं पाञ्चरात्रं तथा भागावताभिधो मिति ।

तथा श्रीभागवते

वैदिक तान्त्रिको मिश्र इति मे त्रिविधो मखः ।
त्रयाणामीप्सितेनैव विधिना मां समर्चयेत् ' (१-२७-१०)

इत्यारभ्य

एवं क्रियायोगपदैः पुमान् वैदिकतान्त्रिकैः ।
अर्चन्नभयतः सिद्धि भतो विन्दत्यभीप्सिता ? मित्यन्तम ।।