पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“भक्ताया भगवन्तं नारायणमर्चये' दिति श्रीसुत्रे भत्तेरर्चनस्य सन्निहिती पकारकत्वबोधनात् भक्तिप्रशंसा बहुशः तत्र कृता इश्यते। यथा ‘तपोभिः कर्मभि पुण्यैर्वाऽन्यैः नाप्नुयाद्वैष्णवं पदं, भक्तयैव निनयेन्नान्यै:। भक्तिरेव परा पुण्या भक्तिरेव शुभप्रदा । तृष्णाबैतरणीयानं संवर्तकातिवृष्टिरक्षा कामहालाहलाग्न्यमृतधारा सङ्कल्पबीजहा देहबन्धमोक्षप्रदायिनी सङ्कल्पकण्टकाविद्धविशल्यकरणी योगध्यकुर वर्धनी अस्मिक्रकचऽछेदरोपसज्जीविनी दुःखत्रयजालभेदिनी सुखचिन्तामणिप्रदा स्मर्तृणां भक्तिः ? इति । (काश्यप, २० अध्याये )

'परमं पदं गच्छ 'तीत्यस्य िववरणञ्च । यथा 'सवदवमयस्य देवेश स्यार्चनं सर्वशान्तिकरं वेदानां वैदिकानामप्यभिबृहणम् । एतदेवं यत्नेनापि भक्तया यः कुर्यात् स पुत्रदारक्षेत्रमित्रस्वकुलपशुभृत्यवाहनादि समृद्धि सुवर्ण रत्नधान्यादिसर्वसम्पदं ब्याध्याद्यशुभनाशनञ्च लब्ध्वा अभीष्टानि सर्वाणि सुखानि इह लोके चिरमनुभूय तदप्ययं शाश्वतं देवैरप्यनभिलक्ष्यमतीन्द्रियं वैष्णवं परमं पदं गच्छतेि । तस्यैकविंशतिपितरः पूर्वजाश्च एकविंशत्यपरजाताश्च विष्णु लॉक महीयन्ते ' (काश्यप. ६८ अध्याये) * इत्यर्चकस्य सर्वोत्तरमैहेिकभोगानुभव मुक्तवा भगवत्पदप्राप्तिरप्युदिता । तथा महाप्रतिष्ठान्ते च ' समाप्ते वैष्णवयागे भोगैश्वर्यं प्रतिष्ठितेत्युक्त्वा कलेबरं सद्यः शङ्खचक्रधरः श्यामलाङ्गश्चतुर्भुज श्रीवत्सवक्षाः भूत्वा वैनतेयभुजमारूढः सर्वदेवनमस्कृतः सर्वान् लोकानतीत्यासौ विष्णोः सायुज्यमाप्नुयात् । ‘अन्यलोकाताः सर्वे पुनरावर्तिनः विष्णुलोकगताना नास्त्यावृति:’ इतेि (काश्यप. २० अध्याये) परमपदस्यापुनरावृतिलक्षणत्वञ्च प्रतिपादितम्।

तथोक्तं गीतासु

‘आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते’ इति । (८-६)

‘मामुपेत्य तु कौन्तेय दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमं गताः " इति च । (८ -६)