पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्तरा च प्रसङ्गात् काम्यकल्पाः अद्भुतसम्भवतच्छान्त्यादयः प्रगृता भवन्तीति उत्क्तविषयविभागेन संहिता व्याख्याताः ।

किञ्च श्रीसूत्रे ' विष्णोर्नित्याचें 'त्यत्रत्यविष्णुशब्दं विवृणुते काश्यपः। यथा * अथ विश्वतश्चक्षु : विश्वमुखाड् ध्रिहस्त विश्वात्मकं विश्वगर्भ विश्वकेतारं विश्वन्द्रियगुणाभासं विश्धएन्द्रियविवर्जितमनादिनिधनं व्योमाभं यद् ज्ञातृ ज्ञेयं जानवेिहीनं ज्ञानघनं तदेव जाग्रत्स्वप्नसुषुप्तितुर्यावस्थानां बहिः प्रज्ञान्तः प्रज्ञप्राज्ञावस्थं वैश्वानरतैजसहृदयाकाशरूपेण स्थूलं प्रविभक्तमानन्दं भुञ्जानं ब्रह्म तुर्य चतुष्पाद मामनन्ति । तदेव ब्रह्म सत्चोत्कर्षनिकर्षाभ्यां प्राणिषु चतुर्धा भिद्यते सतवतः पादतोऽर्धत त्रिपादात्वेकवलात । दर्मज्ञानैश्वर्यवैराग्यविषयाश्चतस्रो मूर्तयस्त्विमा भवन्ति । आसु मूर्तिषु कूटस्थः सूक्ष्ममूर्तिः सत्तामात्रः सोऽत्र परं ब्रह्म वेिष्वाग्य:’ इति (काश्यप. २५ अध्याये) विष्णुः सर्ववेदान्तसिद्धं ब्रहोत्युक्तम्।

स च विष्णुः श्रीसहाय एवार्चनीय इति तत्रैवोच्यते । यथा ‘प्रकृतिपुरुषावुभावनादी ताभ्या लोकप्रवर्तनम् । विकारगुणास्सर्वे प्रकृतिसमुद्भूताः कार्यकारणकर्तृत्वे हेतुः प्रकृतिः सा प्रकृतिः श्रीरिति व्याख्याता ' इति (काश्यप. ३८ अध्याये) । तथा ' मायां तु प्रकृतिं विद्यान्मायिनन्तु महेश्वर ' मिति तत्क्लेशसंश्लेषाल्लोकयात्रामूलादेवी । तस्मात्तमनयैव सह देवेशमर्चयन्ति परमर्षयः । ‘सा देवी श्रीरिति प्रोक्ता । सा प्रकृतिः । सा शक्तिः । तदभिन्नाः स्त्रियः सर्वा: पुरुषास्तदभिन्नाः सर्वे । ताभ्यां स्थितिः । तस्मात्सहैवार्चये ' दिलि (काश्यप २५ अध्याये)।

विष्णोर्नित्याचर्चा सर्वदेवाच भव 'तीति श्री वैखानसं सूत्रम् । तत्र विहितमर्चनं साफलमेव । ' षडङ्गुलादहीनं तदूपं कल्पयि ' त्वेत्युक्तत्वात् । उक्तञ्च ' मानसी होमपूजा च बेरपूजेति सा त्रिधा ? इति त्रेधा ? अमूर्त समूर्त मिति द्वेधा चार्चनम् । समूमिति िबम्बार्चनमुच्यते । तथा चोक्तम् ' अर्चनं द्विविधममूर्त समूर्तञ्चेति । अग्नौ हुतममूर्त समूर्त तबिम्बेऽर्चनम् । समूर्ते चक्षुर्मनसोः प्रीतिः सदा संस्थितिश्च ' इति । (काश्यप १ अध्याये)