पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिकोऽर्थः। सा च विष्णुप्रतिमेति च । यथोपबृहितः कश्यपेन श्रुतेरस्या अर्थ :। विष्णुपूजाविहीने देशे विप्रो न जात्वपि वसेत् ' इति । (काश्यप. १७ अध्याये) तथा 'तस्मात् सर्वप्रयत्नेन देवीभ्यां सार्ध विष्णु भगवन्तं सुवर्णरजतताम्रादीना मन्यतमेन षडङ्गुलादहीनमुपकल्प्य यथाविभवमाराध्य तत्प्रमुखे विधानेन हुत्चैवाश्रीयात् । अन्यथा आत्मघाती भवति । विष्णुपूजाविहीनं यद्वेपम तत्पक्कणैः समम्। तद्विप्रमुख्यैः न प्रवेश्यम्, तदधिपेन नासितव्यम्, न सम्भाष्य' मित्यादि (काश्यप १९ अध्याये)

यथा वा 'गृह श्मशानं तव बिम्बवर्जित ' मित्यादि भागवतवचनम्।
तथा च मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु '। (९-३४)

'सततं कीर्तयन्तो मां यतन्तश्च द्दढव्रताः।
नमस्यन्तश्च मां भक्तया नित्ययुक्ता उपासते'।। (९-१४)

इत्यादीनां श्रीगीतावचनानामर्चनाविधायकत्व भक्तया उपासत इति भक्तियक्तोऽर्चयेदिति ।

किञ्च * प्रवः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्च ? तेति (ऋग्वेदसंहिता, मं १ सू. १५५ मं १) श्रुतिप्रयोगरूपं ? अथाग्नौ नित्यहोमान्ते विष्णोर्नित्याचर्चा ? इत्यारभ्य ‘भगवन्तं नारायणमर्चयेतद्विष्णोः परमं पदं गच्छ ? तीति श्रीवैखानससूत्रं (प्रश्न ४-१३) उपनिषत्कृत्य प्रवृत्तेऽस्मिञ्छखे प्रकृतार्चनानुबन्धि कत्स्नप्रमेयजातस्य व्याख्याकरणं नान्तरीयकं सम्पद्यते । ततः अर्चनार्थमचनीय दिव्यमङ्गलविग्रहस्य सन्निधापने तस्य उपादानद्रव्यभेदेन निर्माणे प्रकारभेदः चित्रवित्रार्धचित्राभासभेदेन तन्निर्माणे प्रकारान्तरेण भेदः दिव्यमङ्गलविग्रहस्य अभिरूप्यसम्पादनाय तन्निर्माणोपयोगेिंदशतालादिमानकथनं तादृशविग्रहरक्षणाय देवायतनमण्डपगोपुरप्राकारादिनिर्माणं तेषां दीर्घस्थित्युपकारकवृतिकल्पनं आलया प्रयग्रामाग्राहारादिनिर्माणमित्यादय: प्रथमोपस्थिता विपया भवन्ति । अतश्च ताद्दशदिव्यमङ्गलविग्रहस्य श्रीशास्रसिद्धं प्रितिष्ठापनं नित्यार्चनं त्रिविध उत्सवः नवविधं स्नपनं तथात्र स्खलितेषु प्रायश्चित्तमित्यादयः अनन्तरमुपतिष्ठन्ति।