पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तादृशमाराधन भगवद्दिपमङ्गलविग्रहसन्निधिमन्तरा न सेत्स्यति । यथाऽऽह भगवान् मरीचिः ‘अथ भगवतः समाश्रयणं चतुर्विधं भवति । जपहुतार्चन ध्यानानीति । सावित्रीपूर्व वैष्णवीमृचमष्टाक्षरं भगवन्तं ध्यात्वाऽभ्यसेत् स जपः । अग्निहोत्रादि होमो हुतम् । गृहे देवायतने वा वैदिकेन मार्गेण प्रतिमादिषु पूजयेत् तदर्धनम् । निष्कलसकलविभागञ्च ज्ञात्वा अष्टाङ्गयोगमार्गेण परमात्मान जीवात्मना चिन्तयेत तत ध्यान १ मेिति । । तेष्यर्चनं ‘सर्वार्थसाधनं स्या १ दिति (९६ पटले) ।

ततः तधर्चनप्रत्तियोगिदिव्यमङ्गलविग्रहस्वरूपं तत्र भगवतः सान्निध्यसङ्क्रमप्रकारः भक्तितत्पर्वविशेषाणामर्चनाङ्गत्वञ्च प्रतिपाद्यते। यथा सोऽव्ययः सर्वव्याप्याकाशोपमः निष्कलः परमात्मा ज्ञानेन भक्त्या च युक्तस्यान्तः सन्निहितो भवति । ‘ात्मा गुहायां निहितोऽस्य जन्तोः 'इतेि श्रुतिः । तस्माच्छक्तिमता तेन सकलं सङ्कल्प्य भत्क्ट्या मन्त्रैश्च प्रतिष्ठापिते बिम्बे बक्तानुकम्पया सकलः तद्विबम्बे समाविष्टः देवः सन्निहितो भवेत् । अव्यक्तं शाश्धतमन्नादिमध्यान्तमतीन्द्रियं देवैरप्यन्नभिलक्ष्यं यद्वैष्णकं पंद तत्प्राप्तिफलं तदर्चनमिति (काश्यप. ६९ अध्याये)।

अन्यत्र च ब्रह्मादयोऽपि तद्रूपलक्षणनिश्चयं ज्ञातुमशक्तकाः क्तिभितौ तद्रूप भक्तितूलिकया सङ्कल्प्य वर्णरावेष्ट्य आलोकयन्ति । तस्माद्भक्तिरेव कारणम् । अभीक्ष्णदर्शनयोग्यं तद्भगवद्रूपं कल्पये दिति’(काश्यप.५१ अध्याये)।

अन्यत्र च ‘अथातो भगवतो नारायणस्याकृतिलक्षणं व्याख्यास्यामः । यस्यास्यमग्निः द्यौमूर्धा खं नाभिः भूः पादं चक्षुषी अर्कनिशाकरौ दिकू श्रोत्रे ज्योतींष्याभरणानेि उदधयोऽम्बर भूतानीन्द्रियाणि अस्याऽकृतेः प्रमाणत्वं कल्पितं भृग्वादिभिः । तद्धेतुभिनवमन्तव्यमीमांस्यमाज्ञासिद्धमितेि ज्ञात्वा तदुक्तविधिना कारयेत’ इति ! (काश्यप. ५० अध्याये) ।

‘समूर्तार्चनमेव कारये' दितेि पूर्व विहितमर्थमेव व्यतिरेकमुखेन समर्थयति श्रुतिः। यथा मुण्डके 'नयमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाप्यलिङ्गात्’ (मुं.३-२-४) इति । अलङ्मादिति प्रतिमारहितादित्येव स्वार