पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यथा न परम् पदमवाप्नोति' (मरीचिः ९६ पटले) इत्यन्यमुखेन व्यतिरेकमुखेनापि ।

केिऽच क्रियावतो ब्रह्मविद्वरिष्ठत्वबोधनेन अस्यैव क्रियायोगस्य अभ्यर्हितत्व ख्यापन उपनिषत्स्वपि दृश्यते । यथा मुण्डके ‘ात्मक्रीडः आगत्मरतिः क्रिया वानेप ब्रह्मविदां वरिष्ठः ' (मु ३-9-४) इति । अत्र क्रिया भगवदाराधनमेव । उपनिषदुपक्रमे तादृश क्रियायोगस्योपदेशपरम्परा प्रसङ्गे तत्प्रत्यभिज्ञापकसामग्री लाभात् । यथा ‘ब्रह्मा देवानां प्रश्रमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्या सर्वविद्याप्रधानामथर्वाय ज्येष्ठपुत्राय प्राह' (मु.१.१.५) इति। अयमर्थः– ' ब्रह्मा विखनाः ज्येष्ठपुत्राय अथर्वाय भूगवे सर्वविद्याप्रधाना ब्रह्मविद्यां भावदाराधनरूपा प्राहे ' ति गुरूपदेश परम्परा पठिता । तथा श्रुतेिरियमुपहिता च श्रीशाखे ।

’ततः परं चतुर्वक्तो जटाकाषायदण्डभृत् ।
नैमिशारण्यमासाद्य मुनिन्दनिषेवितम् ।
तपस्तप्त्वा चिरं कालं ध्यायस्तेजस्तु वैष्णवम् ।
पश्चादपश्यद्विष्णूक्तमागम विस्तरात्तदा ।
सडिक्षप्य सारमादाय शाणोल्लिखितरत्नवत ।
धाता विस्रनसो नाम्ना मरीच्यादि सुतान्मुनीन्
अबोधयदिदं शास्त्रं सार्धकोटिप्रमाणक 'मिति ।

(तात्पर्यचिन्तामणौ)

केिञ्च पूर्वोक्तश्रुतिभ्योऽप्याराधनमेव ब्रह्मविद्येत्यति लभ्यते । तदवोत्तं भगवता जादरायणेन 'अपि संराधनेन प्रत्यक्षानुमानाभ्था ' मित्याराधनस्य ब्रह्मविद्यात्वम् ।

भगवदाराधनस्य यथा उत्तमब्रह्मविद्यात्वं तथा विस्तर भगवच्छीनिवास मखिवेदान्तदेशिकैरनुगृहीतोत्तमब्रह्मविद्याग्रन्थे द्रष्टव्य : ।