पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मरीचिं मुनयः प्रणम्य चरेितक्रियाज्ञानयोगेषु चतुषु चरित भगवता विलनस सूत्रे विस्तरण प्रणीतमन्यत् सङ्क्षेपणोक्तम् । तदुपन्यासो बहुप्रयोगक्रमेण क्रियामार्गस्त्वया प्रणीतः । भगवन् ! तत्वज्ञान योग्गञ्च श्रोतुमिच्छाम इत्ययाचन्त' इति । (८५.पटले)

तत्र चरितं नाम 'गाभै होमैः जातकर्मचूडामौञ्जीनिबन्धनैः।

बैजिक गार्भिकञ्चैनो द्विजानामपमृज्यते ।
स्याध्यायेन व्रतैः होमैः त्रैविद्येनेज्यया सुतैः ।
महायजैश्च यजैश्च ब्राह्मीय क्रियते तनुः' । (मनु २.८)

इत्युक्तश्रौतस्मार्तधर्मानुष्ठानमुच्यते । क्रियेति श्रीमतो नारायणस्य दिव्यमङ्गल विग्रहसपर्याच्यते । तथा श्रीभागवते -

प्रियायोगं समाचक्ष्व भवदाराधनं विभो ।
पुत्रेभ्यो भृगुमुख्येभ्यो यथाऽऽह भगवानजः ' इत्यारभ्य

(स्कं १-२७-१)

‘एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः ।
अर्चन्नभयतः सिद्धि मक्तो विन्दत्यभीप्सिताम ? ।

(स्कं १-२७-४९0

इत्यन्तेन ग्रन्थेन विखनसा भगमरीच्यादिभ्यः उपदिष्टं भगवदाराधनमेव प्रपञ्चितम् । ज्ञानयोगौ प्रसिद्धौ ।

तत्र चरितं विस्तरेण श्रीवैखानसकल्पसूत्रे उक्तमिति ज्ञानापेक्षया योगापेक्षया च अभ्यर्हितत्वेन आसु संहितासु िक्रयायोगप्रपञ्चस्यैव विस्तरेणोपन्यास क्रियते । अभ्यर्हितस्वचास्याभिधीयेिते तेष्वर्चनं सर्वार्थसाधनं स्यात * इत्यारभ्य ' एवं सदा ध्यातुमशक्यत्वात् प्रतिमादिषु पञ्घमूर्तिनामभेदैः समावाह्याभ्यर्चयेत् । एतत्समूर्तार्चनस्य सर्वसिद्धिप्रदत्चात् गृहे देवायतने वा समूर्ताचनमेव कारयेत् ।