पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तोत्तरशततमोऽध्यायः १९९ पृथक् पृथक् हुत्वा सभ्ये शान्तिं हुत्वा यानस्थं 'बिम्बं प्रणम्य ‘परं रोह' इत्यादाय नावमारोप्य प्राङ्मुख उदङ्मुखो वा भूत्वा विष्णुसूक्तं जप्त्वा अगाधे क्षिप्त्वा वैष्णवं हुत्वा आचार्येभ्यो धेनुचतुष्कं दद्यात् । दारुशैलजबेराणां पतनोत्पाटनादिषु यदि न स्युः व्रणादयः तानि शुचौ भूमौ खनित्वा कुक्षदभट्टराण्यास्तीर्य तत्र प्रक्षिप्य त्रिरात्रेऽतीते शिला ग्रहणवद्वत्या महाशान्तिं हुत्वा आरभेत । प्राणायाहीन् चेत् अपनीयान्यदाहरेत्'। तरुणालयमकृत्वा नवकर्मणि कृते महत्तरो दोषो भवति । कर्तारो रौरवं यान्ति । अतः सहस्रभोजनं कृत्वा सहस्नाहुतीः हुत्वा महाशान्तिं हुत्वा पुनर्बालागारे संस्थाप्यारभेत । बालागारे अयथावत्कृते भूमियनं पुनः पुण्याहं शान्तिं च हुत्वा यथास्थानं निवेश्यारभेत । आरधविधिप्रमाणेनैव सर्व कारयेत् । विधिसङ्करदोषो वर्णाश्रमसङ्कराय भवति । इति श्रीवैखानसे भगवच्छास्त्रे कशयपप्रोक्ते ज्ञानकाण्डे जीर्णबेरपरित्यागविधिर्नाम सप्तोत्तरशततमोऽध्यायः ।। ।। अथ अष्टोत्तरशततमोऽध्यायः ।। वैष्णवशात् वैखानसं पाञ्चरात्रमिति विधानद्वयं विष्णोस्तन्त्रम् । वैखानसे सौम्य माग्नेयं पाञ्चरात्रम् । तस्मात् ग्रामनगरफ्तनादिषु गृहेषु च वैखानसविधानेन भगवन्तं पूजयेत् । भुक्तिमुक्तिफलप्रदत्वात् सौम्यत्वत्तस्य । नदीतीराद्रिवनप्रदेशे त्रिविक्तेऽपि जनेभ्योऽत्यत्र पाञ्चरात्रेणैवार्चयत् । तान्त्रिकत्वादाग्नेयत्वात्तस्य । न कदाचिज्जनाकीर्णं समृद्धिकामः कारयेत् । कुर्याञ्चेद्विनाशाय भवति । 1. क. देवं. 2. क. अखाते छ. अशते. 3. छ. व्रणा: अधस्ताच्छुथी. 4. B . आरभेत. 5. ग. तत्स्थाने बालागारेय. अथ बालागारे. 6. क. आरब्धं.