पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे बार्हस्पत्यं सारस्वतं । हुत्वा अभिपूजयेत् । यदद्रव्य विहीनं तदैवत्यमन्त्रान् वैष्णवान्तं जुहुयात् । प्रतिसरबन्धहीने सौम्यं नागाधिपदैवत्यं वैष्णवान्तं हुत्वा बध्नीयात् । अहुरार्पणहीने सौम्यं भूमिदैवत्यं वैम्णवान्तं हुत्वा आरभेत । इति श्रीवैखानसे भगवच्छास्त्रे कश्ययपप्रोक्ते ज्ञानकाण्डे उत्सवबलिपतनादि प्रायश्चित्तविधिर्नाम षडुत्तरशततमोऽध्यायः ।। ।। अथ सप्तोत्तरशततमोऽध्यायः ।। द्वितीयतरुणालयनिमित्तम्, निष्कृतिर्व स्वेदरुधिरपुलक' निम्नोषज्वलनक्षेपानतवर्णस्फुटितजल्पनहसन वल्मीकतृणकवकादिसम्भवे. अहीने महाबेरे गर्भागारे अन्त्यप्रवेशने शीर्थे तलभरो रामें भिने, सुधावर्णानुलेपने मन्दिरे दुष्टे, सद्यस्तरुणालयमारभेत । अज्ञानादर्थलोभाद्वा न कुर्याउचेत् कर्षाराधकयोः ग्रामादीनां च महद्भयम् । तस्मात् द्वादशाहेऽतीते अनुकूलभं वा कारयेत् । द्वादशाहेऽतीते महाशान्तिं हुत्वा वैष्णवान् संपूज्य शुक्तितो दक्षिणां दत्वा आरभेत । मासेऽतीते । महाशान्तिं च हुत्वा विप्रशतं भोजयित्वा देवमनुज्ञाप्य कुर्यात् । पण्मासेऽतीते भगवान् न रमेत । तस्मात् तरुणालये पूर्ववत् संस्थाप्यार्चयेत् । संवत्सरेऽतीते प्रेतावासो भवति । तस्मतरुणलाये देवं संस्थाप्य जीर्णबरं विसर्जयेत । जीर्णवेरत्यागप्रकारः गोवालरज्जुभिः कुशरज्जुभिः । उर्णाभिः तान्तवैः सूत्रैः वासोभिः क्रमा च्छाद्य ‘पूषा ते ग्रम्थि’ मिति सुदृढमाबद्धय राजगोवृषस्यन्दनरथरॐ शिबिका ब्राह्मणानामन्यतममारोप्य आघोष्यालहृत्य समुद्रं समुद्रगां नदीं हद वा । अशोष्यजलाशयमन्यं वा आश्रिस्य तीरे पञ्चाग्नीन साधयित्वा दिग्देवताभ्यः 1. B. निम्नेषु. 2. क. दृष्टे. 3. B. समुद्र बा.