पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षडुत्तरशततमोऽध्यायः ५९७ यानाद्यदि पतिते बिम्बे पीठात् प्रभेदे पुनः संयोज्य संशोध्य भूमियज्ञ कृत्वोत्सवं कुर्यात् । प्रभायुदाभरणादीनां भेदे चैवं कृत्वा सप्तभिः कलशैः संस्नाप्य शान्ति हुत्वाऽत्रभेत । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे ध्वजपतनादि प्रायश्चितविधिर्नाम पञ्चोत्तरशततमोऽध्यायः ।। ॥ । अथ । षडुत्तरशततमोऽध्यायः ।। उत्सवलिष्कृति-(अनुवृत) बलिपतने बलिरक्षकमभ्यर्य ध्वाजं वैष्णवं हुत्वा बलिमुद्धरेत् । सन्धौ बलिहीने तत्सन्ध्याधिपमूर्तिभिः वैष्णवं व्याहृत्यन्तं हुत्वा पुनर्बलिं क्षिपेत् ।। । वादकाणायकनर्तकाप्सरसां पतने भर्सने क्रोधे ब्राहं गारुडं वैष्णवं हुत्वोत्सवमारभेत । ध्वजपिञ्छचामराम्बरादीनां दहने पतने। गारुडमारनेयं वैष्णवान्तं जुहुयात् । दीपहीने अग्निसूक्तं हुत्वा आग्नेयं धूपहीने बार्हस्पत्यम् ऋत्विगाचार्यादीनां संक्षोभे सप्तर्षिदेवत्यं वैष्णवान्तं जुहुयात् । कालातीते ब्राह्म वैष्णवम् । एककालोत्सवे हीने तडिनाधिपमभ्यर्य शान्तिं हुत्वा आरभेत । द्विकाले हीने द्विगुणमुत्सवमाचरेत्' । नृत्तगेयवाद्यालङ्कार यानाद्यन्यतमहीने ब्रह्म प्राजापत्यं गारुडी वैष्वक्सेनं वैष्णवान्तं हुत्वा सम्यक् कुर्यात् । कलहे रुधिरस्रावे अग्न्युत्पाते शान्तिं हुत्वा ब्राह्मणान् भोजयित्वा पुनरारभेत । अवभृथात्पश्चात् सप्ताहान्नवातद्वा अन्तरे यदि ध्वजावरोहणं न स्यात अनावृष्टिर्भवति । अतो ध्वाजं गारुडं ब्रह्म वैष्णवं हुत्वा देवमनुज्ञाप्य अवरोह येत् । भृत्यवर्गसंक्षोभे भौतिकं वैष्णवान्तं जुहुयात् । तत्कालातीते ब्राह वैष्णवान्तं जुहुयात् ।। अतः समानीयाराधयति । सूरिषु ब्राहं वैष्णवं । 1. B. पमरुत्सवमारभेत. 2. B. धाशधलंकारहीनान्यतमहीने.