पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे पुनरारभेत । एककाले हीने सप्तभिः कलशैः भगवन्तं संस्नाप्य सौरं सौभ्यं गारुडे वैष्णवमौपासनाग्नौ हुत्वा बलिमारभेत । द्विकाले द्विगुणमेवं सप्तरात्रं वर्धयत् । सप्तरात्रेऽतीते तदालयगतानां तत्तन्मन्त्रैः हुत्वा पुनश्शान्तिं समारभेत । द्वादशाहेऽतीते महशान्तिं हुत्वा देवेश सस्नाष्यारभेत । स्त्रीशूद्रानुपेताशु चिपतितान्त्यजातिस्पर्शने 'च तदपहाय ब्रह्म प्राजापत्यं सौम्ये सौर गारुड़े वैष्णवं हुत्वा आरभेत । बिम्बे प्रमाणहीने भिज्ने फैशीषं वैष्णवं जुहुयाच्छतम् । बलिधारकपतने गारुडं वारुणं वायव्यं बलिदैवत्यं व्याहृत्यन्तं हुत्वा कुर्यात् । उक्तलक्षणयुतपात्रालाभे हविःपात्रं सङ्गृह्य तदरूपं ध्यात्वा तदधिदेवं वैष्णवं हुत्वा बलिमुद्धरेत् । केशकीटादिदूषिते अयोग्याशच्यन्नकल्पिते तत्तयक्तवा बलिं सौर सौम्यमाग्नेय गारुड वैष्णवमार्षमाज्येन व्याहृत्यन्तं हुत्वा आरभेत । एवमेव हविर्निवेदने चोक्तमिति विज्ञायते । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपभोक्ते ज्ञानकाण्डे बलिहीनप्रायलित विधिर्नाम चतुरुत्तरशततमोऽध्यायः । ।। अथ पञ्चोत्तरशततमोऽध्यायः ।। अथोत्सवप्रायश्चितम् । ध्वजपतनभग्नभेदहीनेषु वाजं वैष्णवं व्या हृत्यन्तं हुत्वोत्सवमारभेत । घोषणे होने ब्राह्म प्राजापत्य । सौदर्शनमीङ्करादी दक्षिणारलौ जुहुयात् । चक्रामितगरूयादिपतने गारुडं वैष्णवं सौदर्शनं वैष्वक्सेनं सौरं सौम्यं वैष्णवं जुहुयात् । देवदेवस्य पतने लोकानं च महद्भयम् । तस्मादुद्विग्नमानसो भूत्वोद्धृत्य बिम्बं प्रक्षाल्य सप्तभिः कलशैः संस्नाप्य शान्तिं हुत्वा आचार्य संपूज्योत्सवमारभेत । अहीनं यदि भवेत् तद्विसृज्य अन्यदादाय तदद्यास्थितो शक्तिं तत्रावाह्य संस्नाप्य पूर्ववत्प्रायश्चितं हुत्चोत्सवं कुर्यात् । 1. क. पतने च. 2. क. सौभ्यमिति न दृश्यते. 3. क. जीणे. 4. B. अनेनैव, 5, छ. यो शक्ति. 6. B. यजित्वा.