पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्र्युत्तरशततमोऽध्यायः १९५ यदि कुर्यात् शान्तिं हुत्वा पुनरन्यत्र स्नपनमारभेत । शयनस्थे तथा देवे प्रभाते सौरं सौरथं वैष्णवं व्याहृत्यन्तं हुत्वा बेरमुत्थाप्य प्रोक्षणेः प्रोक्ष्याभ्यर्थ आचरेत् । वेद्याः प्रमाणहीने भूमिमध्यान्तमभ्यर्थं 'प्रपायामथवा भूम्य कूर्च वासो वा न्यत्य कुर्यात् । स्नपनार्थं प्रकल्पितं द्रव्यमग्निदग्धं चेत् आग्नेयं वारुणं सौम्यं वैष्णवं च हुत्वा पुनरादयाऽचरेत् । प्रमादात्साधितं पूर्ण कलशं भिद्यते यदि अन्यं कलशमादाय पूर्ववन्मन्त्रेणापूर्याधिदेवमाराध्य द्वादशाक्षरमष्टाक्षरं बा अष्टसहस्रमावर्तयेत । द्रव्याणामेवम । कलशादीनां विपर्यासे त्तत्स्थाने निवेश्याभ्यर्थं विष्णुगायत्रीमष्टशतं जपेत् । एतेषां श्वकाकाद्यन्त्याशुचिस्पर्श तदपनीयान्थमादाय अष्टाक्षरे शतावर्य देवमनुज्ञाप्य तत्तत्स्थानेऽभ्ययं स्नापयेत्। संस्पृष्टं चैवमपनीयाऽचरेत् । द्रव्याणां हीनता स्यात्चेत् जलेन पूरयेत् । उक्तद्रव्यालाभे तत्तत् प्रतिनिधिं स्मृत्वा तद्व्याधिपं वैष्णवान्तं जुहुयात् । मधु (?) अजाविकमहिषीक्षीरदधिस्नापिते शान्तिं हुत्वा पञ्चगव्यैः संस्नाप्य शान्तिं वाच्याऽरभेत । प्रमादान्निदाधेःपतिते बिम्बे तदा संभ्रान्तमानसो भूत्वा उत्थाप्य पञ्चगव्यैः संस्नाप्य प्रोक्षणैः प्रोक्ष्य श्वशे स्थापयित्वा ‘सुवर्छवी’ रिति बिम्बस्य मूर्तेि नाभौ पादे च स्युष्टा भगवतो बले ' नेति भगवन्तं प्रणम्या भ्यर्य वैष्णवं हुत्वा स्थापयेत् । तोरणादिविपर्यासे तदधिदैवत्यं, केवलं विहीने सौरं सौम्यं प्राजापत्यं वैनं सौदर्शनं कृत्वा असफुलमारभेत । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे स्नपन प्रायश्चित्तविधिर्नाम त्र्युत्तरशततमोऽध्यायः ।। ।। अथ चतुरुत्तरशततमोऽध्यायः ।। नित्थबलिनिस्कृतिः सुरर्षिमनुष्याणा बलं यस्मात् प्रवर्धते तस्माद्बलिरिति प्रोक्तम् । बलि मुत्थाप्य विघ्नचेत् येन केनचित् ब्राह्म सौम्यं सौरं गारुडं वैष्वक्सेनं हुत्वा 1. प्रपा व दर्भची बासो वा. 2. A. द्रव्यमेवं कलशादीन. 3. ग. जप्त्वा 4. B. निर्माल्ये. 5. B. अन्येन. 6. B. वैष्णवमिति तत्र .