पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ ४ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे कृत्वा अध्वर्युः ‘ब्रह्मन् वयमिदं त्वया सृष्टस्य जगतः सर्वशान्तिदं देवयजनं करिष्यामइति ब्रह्माणं वदति । होतरेहीत्यत्रैवाध्वर्युः । 'अध्वर्यो देवता’ इत्यारभ्य होता ‘हिं ! भूभुवस्सुवरो ” भित्यन्ते ‘जगद्रक्षणार्थं देवयजनं कुरु‘वेति ब्रह्माणं वदति । पश्चात् पशुमभिमन्त्र्य ‘सहस्रशीर्षा’ पुरुषः, पुरुष एवेति शृङ्गौ ‘एतावान्, त्रिपादूर्व’ इत्यक्षिणी ‘तस्माद्विराट् यत्पुरुषे' णेति शीर्ष ‘सप्तास्यासन्, तं यज्ञ' मिति कर्ण ‘तस्माद्यज्ञात तस्माद्यज्ञा ‘ दित्युदरं, ‘तस्मादधा‘इति पुच्छं ‘यत्पुरुषं व्यदधुरिति वृषणौ ‘ब्राह्मणो' स्येतेि लिङ्गं ‘चन्द्रमा मनस’ इति नाभिं नाभ्या ’ दिति पूर्वपादौ ‘वेदाहमेत, धाता । पुरस्तात्यज्ञेन ययज्ञ’ आसी मित्यपरपादौ च क्रमेण छित्वा जुहोति । पश्चान्महाशान्तिं व्याहृत्यन्तं हुत्वा आशीर्भिराघोष्य अध्वर्युप्रभृतीनां पृथक् पृथक् दक्षिणां दद्यात् । स एष विष्णुयागः । इत्येवे त्या पश्चात् शिलास्थापनादि कर्मारभेत । “लोकधर्म विगर्हितानां च निवेदने शान्तिं हुत्वा सप्तभिः फलशैः संस्नाप्य आचार्यः कृच्छे चरतीति विज्ञायते । इति श्रीवैखानसे भगवच्छअस्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे अर्चनाहीनप्रायश्चितविष्णुयागविधानं नाम इतरशततमोऽध्यायः ।। ।। अथ । त्र्युत्तरशततमोऽध्यायः ।। अथातः स्नपननिष्कृति व्याख्यास्यामः । दिवा निशि सन्धिषु यत्र यत्र निमितं स्यात क्त्तत स्नपनकालः । कालातीते नित्यार्चनाय न दाशे भवति । प्रमुखे चोत्तरे वापि स्नपनं करोति । अन्ययोः । नायरेत । न मूलागारे तथाऽचरेत् । विदिक्ष्यैशान्ये वा कुर्यात् । आग्नेये नैर्फते वायव्ये न समाचरेत । 1. B. अध्ययं हनुमन्ते जगस्तृणानं देवयजनं कुरुष्वेतीति पाठोऽत्र कोशेषु दृश्यते. 2. कष्तं 3. B. स. शूल 4. लोकधर्मविरुद्धव्यापारचतुष्कं. 5. B. अन्ययो: यदिखा