पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९३ ।। अथ ब्युतरशततमोऽध्यायः ।। अर्चनाहीननिष्कृतिः अथैककालार्चने हीने अग्निं समाधाय वैष्णवं भूमिदैवत्यं हुत्वा द्विगुण मर्चयत् । द्विकाले तत् द्विगुणं त्रिकाले त्रिगुणम् । एकाहमर्चने हीने अग्निं परिस्तीर्यं शान्तिं हुत्वा सप्तभिः कलशैः संस्नाप्य ब्राह्मणान् भोजयेत् । द्वितीये द्विगुणं तृतीये त्रिगुणम् । एवं मासान्तं वर्धयति । मासेऽतीते वास्तुशुद्धिं कृत्वा पञ्चाग्नीन् परिस्तीर्य दिग्दैवत्यं हुत्वा अब्जाग्नौ वास्तुहोमं हुत्वा अष्टशतैः कलशैः भगवन्तं संस्नाप्य हौत्रं प्रशंस्य विप्रशतं भोजयेत् । द्वितीये द्विगुणं तृतीये त्रिगुणम् । एवं संवत्सरान्तं वर्धयति । संवत्सरेऽतीते स्थापनं सम्य गाचरेत् । 'द्वादशाब्दातिक्रमे भगवान् न रमेत । तत्र पिशाचब्रह्मराक्षसादयो वसन्ति। तस्मात्तस्मिन् यदीच्छेच्चेत् देवेशं स्थापयितुं सुवर्णहलेन कर्मणादीन् मन्त्रेण कृत्वा अगाधरे पलालभारमुत्सृज्य गोगणय निवेद्य त्रयोदशाहं सप्ताहं । पञ्चाहं त्र्यहे वा विप्रान् भोजयित्वा अगारं नवीकृत्य शुभक्षी वास्तुशुचिं कृत्वा मध्ये अब्जाग्नावब्जहोमं कुर्यात् । विष्णुयागः सर्वत्रारभेत अनियमेषु यागम् । अत्रैवार्षिकं बीजमजं ब्रहवादिनो वदन्ति । तस्मात् शालिपिष्टमयं किष्ककायतमृत्त्रिगुश्यमङ्गोपाङ्गयुतं पशु कृत्वा अग्ने दक्षिणतः संस्थाप्यालहृत्य रात्रिसूक्तेनाभिमृश्य ‘प्रजापते न त्व' दिति दक्षिणे कथं वामे 'त्वघोरचक्षु' रित्युपांशुनैव जप्त्वा ‘चत्वारि शृङ्गे त्युदरमभिमृश्य ब्रह्मासनमास्थाय सुवगृहादीन् ‘सञ्च त्वे जग्मु’ रिति प्रोक्षयति । अध्वर्युर्वदति “ होतरे 'हीति । अत्रैव ‘ अध्वर्यो देवता ‘ इति ‘ओं नमः प्रवक्तू ’ इति होता हौत्रक्रमेणैव स्थापनाधिपानामावाहनक्रमेण जुष्टाकारस्वाहाकारों 1. . . . . न दृश्यते3. . स्थापनाधिपतीनाम्. Bद्वादशाब्देऽतीते2Bउत्सज्येति . ग