पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे वैखानसविधानेनार्चिते स्थाने आनेयं नाचरेत् । यदि कुर्यात् भस्मसात् भवति । तदोषशमनार्थं महाशान्तिं हुत्वा ब्राह्मणान् परिवेष्य वास्तुशुन्डिं कृत्वा पूर्ववत् स्थापयेत् । तदाग्नेये सौम्यसंवेशः समृद्धिकरणाय भवति । तस्मात् सम्यक् समाचरेत। अनक्तानामरिष्टानां मूलमन्त्रद्वयजपहोमैः शान्तिं कारयेत् । 'सर्ववदमयं सर्वार्थसाधकं परात्परतरं गुह्यात् गुह्यतरम् । तस्मात्सम्यक् समाचरेत् । वरं लक्षयुक्तं मध्यममष्टसहन मधमंपञ्चसह तद्वोमः । तस्मात्कर्मगौरवं विदित्वा तदर्हमाचरेत् । शुचौ देशे भगवन्तं सप्तविंशतिविप्रहैराराध्य आचार्य देववत्पूज्याऽरभेत । आज्येनाश्वत्थसमिभि चरुणा दूर्वाहुरैर्वा हृत्पद्मसुषिरे जाज्ज्वल्यमानमकुट देवं दिव्यभूषणं श्यामाम्बरधर तप्तहाटकसङ्काश रक्तास्यः पाणिपादाक्षी प्रणवात्मकं शङ्खचक्रधरं परात्परं देवं विष्णु मनसा ध्यात्वा जुहुयात् । तिलगन्धपुष्पाक्षतरत्नसंपूर्णमश्वत्थप्लक्षवटापामार्गपल्लवयुतं’ रक्तवस्र वेष्टितं कलशं धान्योपरि स्याप्य तम्नध्ये वारुणं मण्डलं वारिबीजयुक्तं ध्यात्वा

  • प्रणवैरावेष्ट्य अनेन मन्त्रेणाभिमृश्य तज्जलेन शिष्यं सहस्रशः प्रोक्ष्य स्नानं वा

कारयेत् । एतेन ग्रहदोषव्याधिपीडोपद्रबरक्तस्त्रीवल्मीकाद्युत्पाताः दुस्वप्नदर्शन शत्रुचोरराजभयबन्धपिशाचापस्माराद्युपद्रवा अज्ञानदोषाः दैवकृतानन्ये शान्तिं यान्ति । अतः सम्यगष्टाक्षरेण द्वादशाक्षरेण वा जपेन होमेन वा कर्मगौरव वशानुतममध्यमाधमप्रकारैरनुक्तानामाचरेत् । इदं धन्यं पुण्यवर्धनं नाभक्ताय नाशुधूपवे नापुत्राय नाशिष्याय नासंसक्ताय दद्यादित्याह कश्यपः । इति श्रीवैखानसे भगवच्छते कश्यपप्रोक्ते ज्ञानकाण्डे अष्टोतरशततमोऽध्यायः ।। ग्रन्थ समाप्तः 1. B. सर्वदेव, 2. B. पल्लवेति नास्ति. 3. ग. वारुण. 4. प्रणवेन. 5. B. समाज्ञाय सक्ताय.