पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे रनुद्ध स्थापिते पूर्ववच्छुत्वा विप्रशतं भोजयित्वा हिरण्यभूगवादिदक्षिणां दत्वा पुनः स्थापनं कुर्यात् । पदाधिनी मीनादौ यजमानाचार्यत्विगादिविरोधे 'येन केनचित भईनीशापनहननतर्जनादयः तेषां यदि वर्तन्ते तत्र ब्राह्म पाञ्चभौतिकं वैष्णवं श्रीभूदैवत्यं रौद्रं सारस्वतं बार्हस्पत्यं हुत्वा आशीर्भिरभिनन्द्याऽऽरभेत । तत्रान्यविद्धे तु ब्राह्म प्राजपत्यं वैष्णवं जुहुयात् । तत्तत्कर्मकरविद्वेषेऽपि वैष्वक्सेनं जुहुयात् । रोदने रुधिर श्रावणे पतने च शान्तिं हुत्वा दक्षिणां दद्यात् । भरणादौ मरणे अन्त्यजप्रवेशे च महाशान्तिं हुत्वा ब्राह्मणान् भोजयित्वा शान्तिं प्रवाच्य समाचरेत । श्वफ्रकाद्युपहतौ प्रवेशे च अग्निशालायां तदद्रव्यार्हकं शौच कृत्वा वास्तुहोमान्ते वैष्णवं हुत्वा शक्तितो दक्षिणां दत्वा पुण्याहान्ते समारभेत । धफाफसूकरादिभिः बिम्बस्पर्शने पञ्चगव्यैः प्रोक्ष्य पुण्याहं वाचयित्वा हेमरूप्यं स्वशक्तितो दक्षिणां दद्यात । उच्छिष्टादिभिः स्पृश्यते यदि बिम्बं कुशोदकैः प्रोक्ष्य पुण्याहान्ते दक्षिणां दत्वाऽऽरभत । शयनादीनामभे शयनालाभे अम्बराण्यत्र कल्पयेत । शयनस्थो देव उत्थापितत वैष्णवं श्रीभूमिदैवत्यं हुत्वा अन्यत् शयनमाकल्प्य पुनः शाययेत् । शयनस्थान विपर्यासे सौरं वैनं सौदर्शनं वैष्वक्सेनं जुहुयात् । ऐन्द्रे वास्त्वग्निसंस्थापनं कुर्याच्चेत् ऐन्द्रं वैष्णवं हुत्वा विप्रशतं भोजयेत् । एवमेवान्यदिक्स्थापने तत्तद्दिग्दैवत्यं वैष्णवयुतं हुत्वा भोजनमारभेत । गर्भालये विमाने वा विलीने निभ्ने बाऽकाले फुल ल्यो वास्तुहोमं यदि कुर्यादाग्नेयं वारुणं वैष्णवं प्राजापत्यं व्याहृत्यन्तं हुत्वा पुनः सम्यगाचरेत् । 1. छ, ऋत्विगादीन. 2. छ. सौर सौदर्शनमित्येव. 3. B. लीले निन्ने वाकाले (१)