पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनशतमोऽध्यायः १८९ कुर्यात् चेत् शान्तिं हुत्वा पूर्ववदाचरेत् । जातरूपं विना अन्यलोहमिश्रितं बिम्बं न स्थापयेत् । स्थापिते तदपनीय पूर्वबहुत्वा । अन्य सस्थापयेत् । जीर्णासन्यानादिषु पीठप्रभाबनतावन्यलोहकते च शङ्खचक्रादिहीने दर्भिक्षव्याधिपीडाफर तस्मादवश्यं सन्दध्यात् । मन्त्रहीने मधूच्छिष्टे विधानेन अब्जाग्नौ ब्राहां प्राजापत्यं सौरं सौम्यं वैष्णवान्तं हुत्वा ब्राह्मणानन्नेन परिवेष्य शक्तितो दक्षिणां दत्वाऽऽरभेत । अङ्गोपाङ्गाहीने अवकुण्ठिते शीनें बिम्बे अर्चनं । यदि चेत महत्तरो दोषो भवति । तस्माज्जीर्णकौतुकमार्गेणापहायान्यं स्थापयेत्। सौवर्ण बिम्बं जीर्ण न त्याज्यम् । लोहवत्कृत्वा नवीकृत्य स्थापयेत् । उपाङ्गे दोषयुक्ते तत्तत्प्रतिसन्धायथं पूर्ववद्रुत्वा बिम्बशुद्धि कृत्वा स्थापयेत् । अनधिवासिते बिम्बे स्थापिते राजराष्ट्रविनाशाय भवति । अज्ञानादर्थलोभाद्वा स्थापितं चेत् महाशान्ति हुत्वा पलादधिवास्य स्थापनं सम्यगाचरेत । स्थापनात्पूर्वमङ्गवैकल्ये तत्तत् प्रति सन्धाय स्थापयित्वा शान्तिं हुत्वाऽऽरभेत ।तयनमोक्षयि हित्वा स्थापितं चेदज्ञानौ त्रिशतं वैष्णवं हुत्वा तदालयगतदेवानां चतुर्भिर्मुर्तिमन्तैश्च हुत्वा सहआहुतिं हुत्वा सहस्रभोजनं कृत्वा स्थापयेत् । संवत्सरेऽतीते लोहमयं भवतीति कश्यपः । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे कोतुकप्रायश्चितविधिर्नाम एकोनशततमोऽध्यायः ।। ।। अथ शततमोऽध्यायः ।। अनुक्तमुहूर्ते स्वामिते अथ स्थापनानुक्तनक्षत्रे मुहूर्ते स्थापिते अब्जाग्नौ धात्रादिभूतान्तं च हुत्वा ब्राह्मणान् भोजयित्वा पुनः स्थापनं कुर्यात् । स्थापकैः दोषयुक्तैः अन्यै 1. छ, यदि कृतं चेत् B. बिम्बाणुना यद्यर्चित चेत् 2. छ, सैवर्ण जातरूपमयं. 3. क. प्रतिसंधाप्य बिम्बशुद्धि