पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे उक्तवृक्षालाभे अन्यं वृक्षे सारवन्तमादाय शान्तिं हुत्वा निष्काधिकदक्षिणां दत्वा आहरेत । अनिष्टदिक्पतने अन्यालाभे महाशान्तिं हुत्वा आहेत ? शूल कल्पनाहीने विपर्यासे सहप्ताहुति हुत्वा शान्तिं संवाच्य आशीर्भिराघोष्य देवमनुमान्य दक्षिणां दत्वा आरभेत । उक्तरस्नालभे अग्निं परिस्तीर्य अरनेर्दक्षिणतो रत्नत्रयमभ्यर्यं तेभ्यो हुत्वा सङ्गृह्य तत्तद्रत्नमिति मनसा ध्यात्वा क्त्तन्मन्त्रेण स्थापयेत् । तोरपि पारदमादायैवं समाचरेत् । बीजानां यवं सोममभ्यर्च हुत्वा न्यसेत । रत्नानां सङले मन्त्रहीने वैष्णवं जुहुयात् । काष्ठमृद्रञ्जुशर्कराम्बरवर्णादीनां योगकाले क्रियाहीने विपर्यासे शान्तिं हुत्वा देवमनुज्ञाप्य दक्षिणं दत्वा आरभेत । 'अक्षिमोचनकाले अतिभ्रमन्त षण्मण्डलाधिपमन्त्रान् शान्तिं हुत्वा पश्वादक्षिमोचनं कुर्यात् । मन्त्रद्रव्यक्रियाहीने अक्षिमोचनान्ते शान्तिं विधानेन हुत्वा दक्षिणां दद्यात्। सामान्प्रयातम भूपरीक्षाद्यक्षिमोचनान्तं यद्यक्रियाविहीनं तस्य शान्तये तद्दिने पौण्डरीकाग्नौ महाशान्तिं हुत्वा आरभेत । उक्तशिलालाभे अंजननिभामादाय हिरण्ये दिग्देवताभ्यो हुत्वा अष्टाक्षरमष्टसहनं जप्त्वा विष्णुमभ्यच्र्याहरेत । शिलायं गर्भदर्शने तदपहाय दोषशान्तिं हुत्वा अन्यत् शिलाप्रहणमारभेतिति विज्ञायते । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे दुर्निमित्त दर्शनप्रायश्चित्तविधिर्नाम अष्टनवतितमोऽध्यायः ।। ।। अथ एकोनशततमोऽध्यायः ।। युवकौतुकयोरनानुरूप्ये अथ ध्रुवस्यानुरूप्यविपर्यासे कौतुके प्रमाणहीने अन्यालयकृते नृपराष्ट्रविनाशाय भवति । तस्मादपनीय महाशान्तिं त्रिरात्रं हुत्वा देवं स्थापयेत्। स्थापिते नवे कौतुके ‘अन्यस्मिन् पश्चात् अन्यसंवेशनं नाचरेत् । लोहगौरवं 1. A. अक्षिमोक्षण. 2. छ. धुबानुरूपस्य विपर्यासे३, अन्यस्मिन्निति स्थाने निवेश्य इति . ग. कशेद्रश्यते.