पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७ ।। अथ सप्तनवतितमोऽध्यायः ।। शङ्ग : स्थापनकाले भग्नोत् वैष्ण्वं ब्राह्म जुहुयात् । रज्जुछेदने याम्यं वायव्यं वैष्णवं जुहुयात् । इष्टकाग्रविपर्यासे गर्भन्यासहीने प्रस्तरे सङ्गले हीनाङ्गो प्रमाणे हीने दोषयुक्ते विहीने द्वारगृहभिस्यादीन हीनाधिक्ये अङ्गहीने विमाने यजमानाचार्यविपर्यासे पौण्डरीकाग्नेि समाहरेत् । विमानाङ्गवैकल्ये 'अथोत्पाताशनिपातधूमादिभिः मन्दिरे स्पन्दिते महाशान्तिं । हुत्या विप्रशतं भोजयित्वा दक्षिणां दद्यात् । भुवापतङ्कवाटबोधिकोत्तरस्थूणादीना मालये दोषयुक्ते जीर्णे वा क्त्तदपहायान्यं संयोज्य प्रोक्षणैः प्रोक्ष्य तद्देवत्यं हुत्वा जयेत्' सम्यक् संहिते विमाने त्वनारब्धे ध्रुवपे अब्दातीते महाशान्तिं हुत्वा सहस्रभोजनं च कृत्वा शक्तितो दक्षिणां दद्यात् । शून्ये तथाऽब्दे द्विगुणं द्विगुणसारभेत । द्वादशाब्देषु विष्णुयागं कृत्वा हरिशङ्करबेरं वा दशाब्दं द्वादशाब्दे वा समारभेतेति विज्ञायते । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे जलादिविपरीत प्रायश्चित्तविधिर्नाम सप्तनवतितमोऽध्यायः ।। अथ अष्टनवतितमोऽध्यायः ।। दारुसङ्ग्रहणादै दारुसङ्ग्रहणकाले ‘निमित्तेषु विपरीतेषु दृष्टेषु स्नात्वा महाशान्ति हुत्वा अष्टाक्षरमष्टसहस्रमावर्य सौदर्शनेनात्मानमभिमृश्य दक्षिणां दत्वा कर्मारभेत । 1. ख. अभ्युत्थात. 2. B. स्कन्दे A. स्पन्दे. 3. B. दशांशाद्वादशायुतं. 4. स. निमितानि.