पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे हीने गोदानसूक्तं शान्तिं च हुत्वा कृष्णवृषभं शुक्ललिङ्गं विप्रेभ्यो दत्वा गोष्ठे पलालभारमुत्सृजेत् । विष्वक्सेनपूजाहीने तत्तन्मन्त्रैः तिलसर्षपमिश्रचरुणा हुत्वा त्रिनिष्कं वा दक्षिणां दद्यात् । लोहबेरहीने दारुणा कृत्वा अतो देवादिना आज्येन शताष्टवारं जुहुयात् । शान्तिहीने विप्रशतं भोजयित्वा ऋत्विजां च दक्षिणां दद्यात् । तरुणालयविहीने तरुणालयविहीने सर्वनाशः । तस्मात पौंडरीकाग्निं साधयित्वा अजहोमं हुत्वा वृषभैकादशं दक्षिणां दद्यात् । यथोक्तं कारयेत् । चपद्मावटे कपालास्थिशिलादिदर्शने वैष्णवं भूमिदैवत्यं हुत्वा कृच्छे चरेत् । तत्र प्रक्षिप्तषर्षभो तत्काले प्राजापत्यं वैष्णवं जुहुयात् । जलस्य विपरीते ब्राह्म वारुणे घटे भिन्ने यज्ञोपस्करनाशे । यागसङले कलहे रुधिरस्रावे च वैष्वक्सेनं गारुडं वैष्णवं जुहुयात् । वामावर्ते जले तस्मिन् ब्रहपद्मावटे वारुणं वायव्ये भूमिदेवत्यं यजेत् ।‘सकुलं चेत् अतो देवादि ब्राह भौमं वारुणं गारुडं यजेत् ।पांसुच्छन्ने जले अधरोत्तरे पार्श्वस्थे सति ब्राहमं वारुणं सहस्रशीर्षाद्याज्येन जुहुयात् । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे कर्षणादिहीनप्रायश्चित्तविधिर्नाम षण्णवतितमोऽध्यायः ।। १: क. शताष्टावरं. . सकुलं चेत् दौवारिकं. . ग. सहस्रशीर्षाचेन. 23