पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चनवतितमोऽध्यायः १८५ साधयित्वा भगवन्तमग्नेर्दक्षिणतोऽभ्ययं सप्तविंशतिभेदैराज्येनाहुतिसहनं हुत्वा भूमियनं कृत्वा अतो देवा इत्यार्षे भूतदैवत्यं च हुत्या आशीर्भिराघोष्य अग्निं विसृज्य वृषभचतुष्कं दक्षिणां दद्यात् । युगलाङ्कालादीनामुक्तवृक्षालाभे भगवन्तमभ्यर्य 'सुवर्णभरैरलङ्कृत्य शक्तिको दक्षिणां दद्यात । युगे प्रमाणहीने वैष्णवं सीरे प्राजापत्यमायसे (?) याम्यं लाङ्गले रौद्रं भौतिकं, हले वैष्णवम् । एतेषां भेदने शीर्णा रज्जुछेदनेः अग्निं साधयित्वा अतो देवादि ब्राह्म प्राजापत्यं गारुडं भतिकं महाव्याहृतिमाज्येन हुत्वा देवमभ्यर्थ रूप्यदानं कुर्यात् । हीनाङ्गो बलीवर्दे प्राजापत्यं रौद्रमार्ष वैष्णवमाज्येन जुहुयात् । कर्षणकाले व्रणयुक्ते वृषे सहस्रशीर्षादीन् विष्णोर्नु कादींश्च शान्तिं हुत्वा निष्काधिकं दक्षिणो दद्यात् । बलीवर्देषु सुषुप्तिभ्रमण पतनेषु पुण्डरीकाग्निं साधयित्वा आज्येनाहुतिसहस्ने विष्णुगायत्र्या हुत्वा' पुनः कर्म प्रवर्तयेत इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे भूपरीक्षाहीनप्रायश्चित्तादिविधिर्नाभ पञ्चनवतितमोऽध्यायः ।। ।। अथ षण्णवतितमोऽध्यायः ।। कर्षणादौ निष्कृति कर्षणले कपालास्ति”रोमनखदन्ततुषभस्मपाषाणादिदर्शने तत्तदपोह्य पञ्चगव्येन आपो हिष्ठेति तिसृभिः प्रोक्ष्य भूमियनं कुर्यात् ।भूमिदानं कृत्वा गव पश्चात् निवेदयेत् । मन्त्रहीने सारस्वतं वैष्णवं रौद्रं हुत्वा कपिलाचतुष्कं दद्यात् । क्रियासङ्गरे महाव्याहृतिं सहस्राहुतिं च । जुहुयात् । गवां सस्यनिवेदने 1. B . सुवर्णभाण्डैः2. ग. जीरों. 3. B. हुत्योष्य, 4. ग. लोह 5. ग. कुर्यात्.