पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शततमोऽद्यायः १९१ अग्निकुण्डादौ हीनाधिक्येनाग्निकुण्डं कृतं चेत् ब्राहृ सौम्यमाग्नेयं सौरं जुहुयात्। स्थापिताग्निविनाशे मथितारनावाग्नेयं चरुणा हुत्या आरभेत । मथितारन्यलाभे आचार्यगृहाच्छोत्रियगृहाद्वा आहृत्य तस्मै बित्तं न दत्वा आग्नेयेन चरुणा हुत्वा आरभेत । वामावर्ते केशे धूमे गन्धेऽपि विस्फुलिकं कान्त्यां न्यूनाय अतीव विज्वलिते ज्वालावलीढके ब्राहां वैष्णवं व्याहृत्यन्तं हुत्वा ब्राह्मणान् भोजयेत । क्रियामन्त्रविपर्यासे क्रियामन्त्रविषयसे वैष्णत्रमाग्नेये व्याहृत्यन्तं हुत्वा ‘अहमिन्द्र' इत्यग्निं प्रणमेत् । आहुतीनां विपर्यासे ब्राह्म वैष्णवं हुत्वा यजेत । होमद्रव्य विहीने पूर्णाहुतिं व्याहृतिं त्रिराज्येन जुहुयात्, तेन सर्व पूर्ण भवति । अन्तहोमक्रियाहीने सकुनैं या पूर्वबद्धत्या सूक्तं वैश्वानरं जपेत्. सर्वकर्म समृद्धिर्भवति । यज्ञोपस्करवस्तूनां विपर्यासे ब्राह्म वैष्णवं हुत्वा दक्षिण दद्यात् । चरूणां विपर्यासे । अतीते च शान्तिं हुत्वा ब्राह्मणान् भोजयेत् । वैपरीत्येथ गोत्रस्य बिहीने बा आज्येनार्ष वैष्णवं ब्राह्म प्राजापत्यमैन्द्र सारस्वतं चरुणा हुत्वा पुनरारभेत । हीननिष्कृतिमारभ्यैतदन्तं सार्वत्रिकमिति विज्ञायते । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे प्रतिष्ठाप्रायश्चित्तविधिर्नाम शततमोऽध्यायः ।। । अथ एकोतरशततमोऽध्यायः ।। प्रमाणहीने कुम्भस्य दोषो भवति । महाव्याधिः महान मानहीने कृष्णमण्डलेऽर्थहानिः स्पुटिते पुत्रहानिः खण्डिते जातिभृशः वर्णहीने मरणं भवति, 1. स. मम्त्रणां A. शण. 2. ग. रौद्र सारस्वतं.