पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे फलोदकम् । कुशैः सहित कुशोदकम् । पद्मरागपुष्यकन्तवजवैदूर्यमौक्तिक प्रवालमरतकगोमेदेन्द्रनीलानीति नवैतानि रत्नानि । पूर्वाणि पञ्चरत्नानि । नवभिः पञ्चभिर्वा रत्नैर्युक्तं रत्नोदकम् । दर्भः जलं स्पृष्ट्वा आपो हिष्ठामयादीन् मन्त्रानावर्य अष्टोत्तरशतं जप्त्वा अभिमन्त्रितं जप्योदकम । ओषध्यः फल पाकान्ताः प्रियङ्गुसर्षपमुद्राद्या, ताभिः सर्वाभिः मिश्रितं सर्वोषध्युदकम् । इत्येतानि प्रधानद्रव्याणि । एतैः प्रधानद्रव्यैः सम्पूर्णाः कलशः प्रधानाः । तत्प्रधानानन्तरं स्नपनार्थं शुद्धोदकपूर्ण: तथोपस्नानः । पुण्यपुष्पजातीफलादि चूर्णकषायचूर्णतीर्थोदक्रवनौषधिहाद्रिचूर्णसर्वगन्धचूर्णमूलगन्धप्लोतवस्त्रगोतयाभरण यज्ञोपवीतधातब इति द्वादशैतान्यनुद्द्याणि। प्राग्द्रव्यैरनुद्रव्यैरपि विना द्वादप्रधानैः द्वादशोपस्नाने चतुर्विंशतिकलशैः स्नपनमधमाधमम । नादेयादिमृदोऽष्टौ सौवर्ण पृथमेकस्मिन्नेकस्मिञ्छरावे गृहंयात् । तथा धान्याम्यङ्कराश्च पूर्ववत् । द्वादशप्रद्याना: कलशाः षत्रिंश दुपस्नानाः । पुण्यपुष्पाण्यपि शरावे, तथा जातीफलादिचूर्णमश्वत्थादिकषायचूर्ण शरावे ग़ीयात् । तीर्थोदकानि चतुर्ष शङ्खेषु गोशृङ्गेषु शरावेषु वा । तथा श्रीवेष्टकादि चूर्णानि शरावेषु पृथक् पृथगेव ग्राह्याणि । तथैव प्राग्द्रव्यैश्च सहितमष्टचत्वारिंशत्कलशैः स्नपनमधममध्यमम् । एतद्विगुणानि प्राग्द्रव्याणि पञ्चगव्यादिभिः द्रव्यैः पूर्णः प्रधाना: कलशा: प्रत्येकं चत्वारश्चत्वारः तथैव तदुपस्नानाचेत्युत्तमम् । त्रयस्त्रयः प्रधानाः पञ्चपञ्चोपस्ताश्चेति मध्यमम् । द्वौ द्वौ प्रधानौ षट्षडुपस्नानाचेत्यधमम् । एकैकप्रधानाः सप्तसप्तोपस्नानाश्चेति केचि दिच्छन्तिती थूदकपूर्णश्चत्वारः हरिद्राचूर्णस्तदुपस्नानार्थाः अष्टौ कलशाः प्राग्द्रव्यैरनुद्रव्यैश्च सहितमेवं शताष्टकलशैः स्नपनमधमोत्तमं, शताष्टकाद्विगुणं मथ्यमाधमं, त्रिगुणं मध्यममध्यमं, पञ्चगुणं मध्यमोत्तम, षड्गुणमुत्तमाधम अष्टगुणमुत्तममध्यमं दशगुणमुतमोतम् । सहस्रकलशैः स्नपनमुत्तमोत्तममिति 1. क. गोमेधिक, 2. ख. ग्रीन् मंझन. 3. के. चूर्णाधानि . 4. क. सर्वगन्धचूर्ण शरावे ग़ीयात्.