पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे बलभद्रस्य रेवत्याश्च पूर्ववत् । ‘प्रद्युम्नं 'सुपाक्ष मदनशं महाबल ' मिति प्रद्युम्नस्य । ‘रोहिणीमिन्दुमुखीं प्रद्युम्नप्रियां पद्म ’ मिति रोहिण्याः । ब्रह्मा निरुन्द्धयोश्च पूर्ववदेव । 3“रमामनिरुद्धप्रियां “सुरुपाममृतोद्भवा ’ मिति । रमायाः । ‘साम्बं सर्वसुखं समृद्धं ‘सामग’ मिति साम्बस्य । ‘वराङ्ी मिन्दुकी साम्बप्रियां पुष्या ‘मितीन्दुकरीदेव्याः । गरुडस्यान्यपरिदेवानाञ्च पूर्ववदावाहनादीनि । सभ्याग्नौ महाप्रतिष्ठोक्तवत् सर्वं होमं जुहुयात् । आहवनीये पुरुषसूक्तमन्वाहार्यं विष्णुसूक्तं गार्हपत्यावसथ्ययोः विष्णुगायत्रीमेकविंशतिकृत्वो हुत्वा तथौपासने ब्रह्मणो ब्राह गरुडस्य गारुडञ्चैकविंशतिकृत्वः 'तनयोमे क्त्तन्मन्त्रैः जुहुयात् । स्नपनकुम्भपूजनशयनानेि च पृथगेव कुर्यादेष विशेषः । अन्यानि सर्वाणि पूर्ववदेवेति कश्यपः । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे उभयवासुदेव प्रतिष्ठाविधिर्नाम षडशीतितमोऽध्यायः । ।। अथ सप्ताशीतितमोऽध्यायः । ।। महास्नपनम् तत्र निमित्त अथ ‘स्नपनं व्याख्यास्यामः । । प्रतिष्ठान्तोत्सवाविषुवायनेषु सूर्यस्य चन्द्रस्य वा राहुप्रहणे च यत्नतो देवेशं संस्तापयेत् । विभवे सति श्रवणद्वादशी मासनक्षत्रादौ अन्यसंक्रमणेषु च दुर्निमितदुःस्वप्नावग्रह दुर्भिक्षव्याध्यादिसर्वोप द्रवशान्त्यर्थं च राज्ञो यजमानस्य वा जन्मनक्षत्रेऽपि देवस्य स्नपनं कारयेत । स्नपनसम्भाराः प्रागट्रव्याणि यथोक्तमकुरानर्पयित्वा स्नपनद्रव्याणि सम्भरति । नदीसस्यक्षेत्रतटाक दर्भमूल (भाजदन्तोद्धृत गोधूडगोडुतकुलीरवासवल्मीके शुद्धां मृदं गृह्यति । 1. क. स्वरूपाक्ष 2. ग. अदर्शनाशं. 3. A. परमं. 4. म. स्वरूप. 5. क. सर्वमुखा. 6. म. सोमगं. 7. क. क्त्तद्धोमे तद्देवोनाथ8. ख. स्नपनविधि । 9. क. प्रतिष्ठान्त उत्सवान्ते 10. म. राहोः 11. म. जन्मसँभेऽपि. 12. क. राजशृङ्गोद्धेत. 13. B. गोशृङ्गोत्रतः.