पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे सुन्दरीं देवं पद्मा ’ मिति रुक्मिण्याः ‘शतरूपा सतीं 'सन्नतिं क्षमा ‘मिति सस्यभामाया, अन्यपरिवारदेवानामावाहनादीनि पूर्ववत् । पारमात्मिकेषु मन्त्रेषु ‘यं त्वां सर्वे पालना ‘येत्येतेनैवाष्टाधिकशतमावर्य जुहुयादिति विशेषः ।। इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे बलरामकृष्णप्रतिष्ठाविधिर्नाम चतुरशीतितमोऽध्यायः । ।। अथ पञ्चाशीतितमोऽध्यायः ।। कल्की युगान्ते सर्वदुष्टसंहारार्थं 2 कल्की च भविष्यति । तस्य नैव भेदः । पूर्ववदेव रूपं कारयित्वा स्थापयेत् । तस्यापि पौण्डरीकाग्नौ हौत्रशंसनादीनि । में कल्किनं ‘कामरूपं सर्वेशं । सर्वसंहार'मिति कल्किनाश्चाऽवाहनादीनि । पारमात्मिकमन्त्रेषु ‘धून वहन्ता ॐ मित्येकविंशतिकृत्वो जुहुयात् । एवमवमान नाशार्थं कल्किनं मयूराकारे कूर्माकारे भूताकारे वा विमाने प्रतिष्ठाप्यार्चयेत् । अथवा देवेशस्य विष्णोः पार्थं दक्षिणतो मुखमण्डपे ‘तथावरणे विनैव परिवारैः सायुधं रामं सीतालक्ष्मणाभ्यां हनूमता च सार्ध वामतः कृष्णञ्च सायुधं देवीभ्थं गरुडेन च युक्तं अन्यप्रादुर्भावरूपं बा यथेष्टमेव स्थापयेदिति । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे कल्किप्रतिष्ठाविधिर्नाम पञ्चाशीतितमोऽध्यायः ।। 1. व. सस्रतीं. 2. B. संहारार्थे3. रूपमिति क. कोशे नास्ति, 4. कामरूपिणं. 5. क. अन्तराबरणे 6. क. विमाने परिवारै