पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे कारयेत् । एवं सायुधं रामं सार्वभौमत्वकामः श्रीकामो वा फेलाकारे अङ्गनाकारे त्रिकूटे स्वस्तिके चतुःफुटे विमाने मण्डपे वा प्रतिष्शष्यार्चयेत् । सिंहासने वामं पदमा- कुञ्चितं दक्षिणं प्रसार्य हस्तं दक्षिणमभयं वामं कट्यवलम्बनपरमासीनं देवं तद्दक्षिणे पा देवीं द्विभुजो वामेन पद्मधरं दक्षिणं कट्यां न्यस्य पादं वाम माकुञ्चय दक्षिणं प्रसार्य देवं किञ्चिदुदीक्ष्य सहर्षमासीनां सीताञ्च तत्सिंहासना दधस्ताद्वामतः प्राञ्जलीकृत्य स्थितं लक्ष्मणं दक्षिणे तथा हनूमन्तमेवं निरायुधम् । भरतशत्रघ्नाभ्यां ‘श्यामपीताभ्यो तथैव स्थितं लक्ष्मणं सिंहासनादधस्तादासीनं वेति केचित् । एवं निरायुधं राघवं देवे सत्पत्रदयासत्यतपश्रीकामः स्थाप येत् । रामस्यान्याहार्यं प्रधानाग्नौ हौत्र ‘शंसनावाहनादीनि । “ रामं दाशरथिं बीरं काकुत्स्थ ‘ मिति रामस्य ‘सीतामयोनिजं लक्ष्मीं वैदेही ’ मिति सीतायाः ‘रामानुजं सौमित्रिं लक्ष्मणं लक्ष्मिवर्धन ५ मिति लक्ष्मणस्य ‘ भरतं रामप्रियं कैकैयीसुतं सकृत • मिति भरतस्य ‘शत्रुघ्नं सुमनस्कं लक्ष्मणानुजं दशरथोद्भव' मिति शत्रुघ्नस्य ‘कपिराजं हनूमन्तं शब्दराशिं महामति ’ मिति हनूमतः । परिवारदेवानां पूर्ववत् । पारमात्मिकेषु मन्त्रेषु ‘स्वौजसा सर्व ’ मित्येकाधिक ‘सप्तभिर्जुहुयात् । एष विशेषः । अनुक्तं पूर्ववदिति विज्ञायते । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे जामदरन्यरामराघवराम प्रतिष्ठाविधिर्नाम त्र्यशीतितमोऽध्यायः । अथ चतुरशीतितमोऽध्यायः ।। बलात् दुराचारदैतेयवधाार्थं वसुदेवार्बलरामःनरकाद्यसुरान् शिशुपालादि नृपान् हन्तुं कृष्णोऽप्यभवत् । तावपि सायुधौ निरायुधौ चेति द्विविधौ भवतः । 1. क. सार्वभौकामीः त्रिवर्गकामो बा. 2. क. पादं वामं. 3. क. श्याभरक्ताभ्यां, ज. सिताभ्यो. 4. क. प्रशंसन. 5. क. एकाधिकं सप्ततिं.