पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ श्रीवैखानसे भगवच्छास्त्र क्राश्यपीये ज्ञानकण्डे मृत्यः महाजलैः सर्वचराचरप्रलये सम्भूते जगत् पुनः भ्रष्टुं तज्जलोपसंहारार्थं देवेशो महामत्स्योऽभूत् । अस्य नैव भेदः । पूर्ववदेव रूपम् । प्रथमो द्वितीयश्चेति द्विविधो भवति कूर्मः । स्वस्थानाच्चलित 'जगदण्ड भरणार्थं प्रथमः । 'अमृतमन्थने मन्थराचलभरणार्थं द्वितीयः । तयोश्च तु रूपं पूर्ववत् ! मत्स्यकूर्मयोः ध्रुवबेरमेव । कौतुकं बिम्बं विष्णु चतुर्धजमेव कारयेत । तद्विपरीतमित्येके । तयोः पूजौ ब्रहशौ । प्रतिष्ठायां विशेषो वक्ष्यते । मत्स्यस्य पौण्डरीके प्रदानारनौ हौत्रं प्रशंस्य मूत्र्यावाहनजुष्टाकार स्वाहाकारप्रधानहोमाश्चाऽचरेत । ६ मत्स्यं जलजं भद्रे । क्रीतात्मक ५ मिति मत्स्यस्यावाहनादि । पारमात्मिकमन्त्रेषु मन्त्रानन्यान् विना ‘ यस्स्वयं सृष्ट’ मिति मन्त्रेणैकेनैव अष्टाधिकशतभावर्यं जुहुयात् । कूर्मस्य गार्हपत्ये प्रधानाग्नौ हौत्रप्रशंसनादीनि कुर्यात् अकूपार जलजं कूर्म कछप मित्यस्यावाहनादीनि । ‘ रायामीश ’ ”इत्येकेन अष्टाधिकशतमावर्य जुहुयात् । अन्यपरिवारदेवानामावाहनादीन्यनक्तानि सर्वाणि च पूर्ववदेव । एष विशेषः । वैराग्यैश्वर्याभ्युदयप्रतिष्ठाकामः मत्स्यकूर्मा सहैव कुम्भाकारे त्रिकूटे हस्तिपृष्ठे सोमच्छान्दे नन्द्यावर्ते वा विमाने प्रतिष्ठाप्यार्चयदिति । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे मत्स्यकूर्मद्वितयप्रतिष्ठा विधिर्नाम एकोनाशीतितमोऽध्यायः । अथ अशीतितमोऽध्यायः अथ वराहः त्रिविधो आदिवराहः प्रलयबराहो यज्ञवराह भवति । इति । महाभारनिपीडितां रसातलमरणं महीमादावुद्धर्तु देवेशो महावराह 1. A जोरदण्डाहरणार्थ, 2. क. अमृतमन्थनमन्थराचलोद्धरणार्थं. 3. A. मत्स्पस्य पारमात्मिकमन्त्रेषु यस्स्वयम् - 4, A. इत्येतेन.