पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे तथा बहूपदेशयुतानि यथाविधि पक्वानेि शुद्धौदनपायसकृन्नरगौल्ययावकानि पञ्चविधानि हवींषि तथर्धमर्धयामे च हविः त्रिसन्धिषु वैष्णवमीझराद्यष्टाशीति विष्णुसूक्तयुतो मूर्तिहोमः पूर्ववदन्नबलिर्मुखवासश्च देयोडैन्यादीनामिन्द्रादीनां च त्रिकालं हविः पूर्ववतथा षष्टि: परिवारदेवाः पञ्चदशार्चकाः षष्टि: परिचारकाः द्वात्रिंशद्भिः पंचाशद्भिर्वा वाद्यघोषणं तथाऽप्सरोभिः नूतगेयैश्च पूजनं दशनाडिकाः यामो व कालः तथैवभेतैर्युक्तमुत्तममध्यमम् । द्वादशतलं विमानं कृत्वा तक्ततले देवेशं प्रतिष्ठाप्य नित्यं सप्तकलशैः स्नापयित्वा नववस्त्रैः सुगन्धिभिर्गन्धमाल्यैश्वालहृत्य । यथोक्तमर्चनं कारयेत् । पूर्वस्माद्विगुणा दीपाः । हवैिषि च मुखवासमूर्तिहोमानबलिप्रभूतानि सर्वाणि पूर्ववदेव । विष्णुपञ्चकायन वेषुवमासचैषु नित्यञ्च विशेषपूजनं महाहविर्निवेदनञ्च नित्योत्सवं विशेषोत्सवञ्च कारयेत् । विष्वक्सेनादिसप्तत्येकोत्तरपरिवारदेवानाञ्च सप्तविंशतिविग्रहैरर्चनं नित्यं विसन्धिष्वाचरेत । साष्टशतं त्रिशतं पञ्चशतं सहस्त्रं वा तथा अराधकाः परिवारकाः द्विशतैः बाद्यघोषणं द्विशताभिर्वा अप्सरोभिः नृत्तगेयवाचैश्च पूजन मित्येतैर्युक्तत्तमोतमम् । एतत्कर्तुमशक्तानां पञ्चमूर्तिविधानेनार्चनमुत्तमोतम मिति विज्ञायते । इति श्रीवैखानसे कश्यपप्रोक्ते ज्ञानकाण्डे नवविधर्चनं नाम ट्रसप्ततितमोऽध्यायः ॥ ।। अथ सप्तसप्ततितमोऽध्यायः ।। अथ पंचमूर्तिविधानं पूर्वं सङ्क्षेपादुक्तम् । तदेव सविशेषं सविस्तरं व्याख्यास्यामः । विष्णुः पुरुषः सत्योऽच्युतोऽनिरुद्ध इति पञ्च मूर्तयः । तेषामदिः परमो विष्णुः युक्तो धर्म ज्ञानमैश्वर्यं वैराग्यमिति चतुर्भिर्गुणैः । तस्मादादि मूर्ते रेव भिन्नाः पुरुषाद्याश्चतस्रो मूर्तयः । धर्मेण गुणेन भिन्नः पुरुषमूर्तिः ज्ञानेन सत्यमूर्तिरश्वर्यणाच्युतमूर्तिधैराग्येणानिरुद्धमूर्तिः । एता मूर्तयश्चतुर्युगाः चतुर्वः चतुर्वर्णाः चतुर्वेदाः चतुर्वर्णसमृद्धिप्रदा भवन्ति । आदिमूर्ते रेकस्यैव