पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ श्रीवैखानसे भगवच्छाखे काश्यपीये ज्ञानकाण्डे सुगन्धि (तं) वारि पात्रे पानीयं दत्वा आचमनान्ते कपूरजातीफलेलालवङ्गसहेि 'सक्रमुकं ताम्बूलं दद्यान्मुखवासः । विधिना बलिमाराध्य देवमनुमान्य बलि मुद्धृत्य प्रदक्षिणं कारयित्वा विष्णुसूतेन मस्तिष्कादि पञ्घप्रणामांश्च कुर्यात् । देवं ध्यायन् मस्तकेऽञ्जलौ न्यस्ते स मस्तिष्कप्रणामः । हृदयेऽञ्जलि पुटे न्यस्ते स संपुटः । हृदयेऽञ्जलिं विन्यस्यानतशरीरे स प्रहाङ्गः । पाणी त्यात्यस्यैवं स्वस्तिबन्धनं कृत्वा पादाङ्गुलिभ्यां जानुभ्यां ललाटेन च पञ्चाङ्गैः भूमिस्पर्शने कृते स पञ्चाङ्गः । पादौ हस्तौ प्रसार्याधोमुखं भूमौ दण्डवच्छयिते स दण्डाडूग इति प्रणामाः । अष्टाक्षरेण मन्त्रेण पुष्पाञ्जलेि दत्वा पुरुषसूक्तपूर्वं वैष्णवैः ऋकायजुस्सामा थर्वभिः मन्त्रैः यथाकाम संस्तूय रत्नं सुवर्ण वा दक्षिणां दत्वा, यथा उक्तहोमान्ते अग्निमाहवनीयाद्रार्हपत्ये समारोपयति तथा कौतुकबिम्बाद्धुवबेरे देवं समारोप यतेि । धुवकौतुकसंयुते प्रातरावाहनं कृत्वा रात्रिपूजान्ते विसर्जनमाचरेत् । एकबेरार्चने तरुणालये च ताबावाहनक्सिरां प्रतिषिद्धौ । पाद्यादिभिरर्चयेत् । प्रातर्रार्चितानि पुष्पाणि उद्भासनान्ते राक्रयन्ते वा निर्माल्यानि भवन्ति । तावता पीठे न्यस्तपुष्पाणि नोद्धरेत् । उपर्युपरि पुष्पन्यासं कुर्यात् । बिम्बेऽर्चि तानेि पुष्पाण्यादाय पीठे न्यस्य मध्याहे पाद्याचैः सबै: साये स्नानप्लोतौ बिनाऽन्यै रर्चयेदुतमम् । अध्यटैरुपवीतान्तैर्विनान्यैर्विग्रहैः मध्यमे च । अधमे च हविष्य लब्धे त्वघ्यर्याचमनान्तैरर्चयेत् । चिकालार्चनायुक्त रात्रिपूजान्तेऽर्चनापरिसमाप्ति । तदैव विसर्ग: । स्यण्डिले चाऽवाह्यार्चनान्त एव विसर्जनम् । 'अर्चनाकाले सर्वे प्रतिलोमा वेददूषकाः पाषण्डिनोऽप्यदृश्याः । तस्मा तप्रच्छन्नपट कत्वा देवस्य दक्षिणे वामे वा तिष्ठन्न एकजानुना आसीनो वा 1. 8. क्रमुकफलं 2. छ. मस्तिष्के 3. छ. आमतशिराः 4. म. उद्वासन माचरेत् . 5. B. समाप्तिरित्येच. 6. म. उद्वासना. 7. म. एवम्चर्चनाकाले. 8. छ. तत्तस्मात्