पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ श्रीवैखानसे भगवच्छारे काश्यपीये जानकाण्डे । अथ त्रिसप्ततितमोऽध्यायः ।। अथातो विग्रहाः । पूजाड़गोपचारा विग्रहा इत्युच्यन्ते । द्वात्रिंशन्नव शितेि : सप्तविंशतेिस्रयोदशाष्टौ षड्विग्रहा इतेि समूर्तार्चनस्योपचाराः षड्विधा भवन्ति । तेषामादौ प्रधानमावाहनं सामान्यमुद्रासन्नमन्ते च । आसनस्वागतानुमान पाद्याचमनपुष्पगन्धधूपदीपाध्यचमन स्नानप्लोतवरुस्रोतरीयाभरणयज्ञोपवीतपाद्याऽऽच मनपुष्पगन्धधूपदीपहचिः पानीयाचमनमुखबासजबलिप्रणामपुष्पाञ्जलिस्तुतिदक्षिणा इति द्वाविंशद्विग्रहाः । तथा आसनाद्याः प्रणामान्ताः नवविंशतिविग्रहाः । मुख बासान्ताः सप्तविंशतेिविग्रहाः । तथा अध्यचमनान्ते पुष्पाञ्जलिनमस्कारान्ताः त्रयोदशविग्रहाः । पाद्याद्यध्र्याचमान्ताः तथा अष्टविग्रहाः । पुष्पाद्यघ्यचमनान्ता पड्विग्रहाः इति । एतेषामाद्यमावाहनम् । तदद्विविधं भवत्यचलं चलमिति यथा हि अरण्यामनलः सर्वत्याप्येकत्र मथनादुज्ज्वलति तथा निष्कलं विष्णु सर्वव्यापिनं ध्यानमथनेन हृद्याविर्भूतं तेजोभास्वरं भक्त्या सकलं सङ्कल्प्य अचले ध्रुवचेरे कृतं यत्पूर्वमावाहन्नं तदचलम । तस्मादेव सकलम । ध्यानेन चले कौतुकबिम्बे नित्यं यत्क्रियते तच्चलम् । यत्तूधुवजेरात्प्रणिधिजले पूर्वबद्धयात्वा तज्जलेन कौतुक बिम्बस्य मूर्नि तत्प्राणशक्तिरिति ग्रावणमावाहनम् । पुष्पदर्भकुशेप्वकं पीठान्ते न्यस्य तत्राऽसीनदे ध्यायेत्तदासनम् । वेिग्रहस्याभिमुखीकरण स्वागतम् । अर्चनमेतत् गृहाण प्रसीदेति याचनमनुमानम् । पादप्रक्षालनायेति पादयोर्जलम्रावणं पाद्यम् । आचमनायेति दक्षिणहस्ते कूर्चेन तोयदानमाचमनम् । मूर्नि दैबिकपुष्पाणि सर्वाणि न्यस्य पादयोः पीठे परितो दक्षिणादि भुजयोः चक्र शंखयोश्च सन्न्यसेत्पुष्पम् । चन्दनकोष्ठ्वादीन् जलेन पेषयित्वा मौलिललाटहृदय भुजेषु नाभेरूध्र्वे सर्वत्र वा समालेपयेद्भन्धम् । गुग्गुलुकोष्ठ्वगुरुचन्दनबिल्वघन शर्कराद्राक्षागुलायै: सुगन्धधूमैः घृतमिथै यथालाभैश्चतुर्दिक्षु धूपयेद्धूपम् । पिचुवर्तियुतं धार्त तैलं वा दीपं पार्थे दीपयेद्दीपम् । अष्टाङ्गुलोच्छ्याः त्र्यङ्गुः 1. छ. विगृह्योऽयभभिमुखीकरण () . 2. छ, सर्व . 3. ग. वाक्षं म. धतेन तैलेलन वा दीपम्