पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ श्रीवैखानसे भगवच्छासे काश्यपीये जानकाण्डे गोमयेनोपलिप्य ‘आशासु सप्त' स्विति पञ्चगव्यैः प्रोक्ष्य नश्यन्ति जगता' मिति देवस्य निर्माल्यं 'फ़ोधयित्वा ‘अहमेवेद' मिति पीठान्निर्माल्यमैन्द्रादीशान पर्यन्तमपोह्या ‘पूतस्त' स्येति वेदिं परिमृज्य *नारायणाय विद्मह’ इति पादपुष्पं “पञ्चभिः मूर्तिभिर्दत्वा विप्ववसेन शान्तं हरममित ' मिति देवस्य निर्माल्यहारिणं भगवच्छेषैः सर्वरर्चयेदित्याचष्टे भृगुः । स्नानासनम् सम्बन्धकूर्वम्, पुष्पन्यासः । “भू प्रपद्य' इति देवेशं नमस्कृत्य ‘परं रह' इति पीटादादय 'प्रतद्विष्णुः स्तवत’ इति स्नानपीठे देवं संयोज्य परेिलिखित मित्याम्लदिना संशोध्य ‘वारीश्चतम्र' इति 'संस्नाप्य ‘नमो वरुणः शूद्ध ‘इतेि क्षीरेणाभि विच्य “भूरानिलय’ इति गन्धतोयै. पुनः संस्नाप्य ततः प्लोतेन विमृज्य “भूरसि भू प्रतिष्ठित्या' इत्यादिना जीवस्थाने प्रतिष्टाप्य कुशाक्षतैः समं जारिभिः प्रणिधिं प्रणवेनापूर्य गायत्र्या धुवस्थानं प्रोक्ष्य ‘संयुक्तमेत' दिति धुव कौतुकयोः सम्बन्धकूर्च प्रक्षिपेत् । ध्रुवस्य पादयोर्मध्ये ‘विष्णवे नम’ इति प्राच्या पुरुषाय, सत्याय दक्षिणे प्रतीच्यामच्युतायानिरुद्धायोदीच्या - आग्नेय्या कपिलाय नैऋत्यां यज्ञाय वायल्या नारायणायैशान्यां पुण्यायेतेि प्रथमावरणे द्वितीयावरणे वाराहाय, नारसिंहाय, वामनाय, त्रिविक्रमायेति पूर्वादि प्रदक्षिणं चतुर्दिक्षु न्यस्य-सुभद्रायेशितात्मने सर्वोद्वहाय सर्वविद्येश्वरायेत्याग्नेयादीशानपर्यन्तं न्यस्य - तृतीयावरणे इन्द्राय यमाय वरुणाय कुबेरायाग्नये वायव ईशानापेति स्बेस्वे देशे प्रणवादि नमोऽन्तं पुष्पन्यासं करोति । कर्मायस्थाने सुभद्राय हयात्मकाय रामदेवाय पुम्यदेवायेति पूर्वादि प्रदक्षिणं चतुर्दिक्षु न्यस्य - सर्वाय सुखावहाय संवहाय सुवहायेत्याग्नेयादीशानपर्यन्तं न्यस्य, शिवं विश्धं मित्रमब्रिमिति पीठान्ते पश्चिमादिबहिर्मुखानर्चयित्वा' सन्तकुमारं सनकं सनातनं सनन्दनमिति 1. शोधयित्वादि ईशानपर्यन्तमित्यन्तं छ. कोशे न दृश्यते. 2, A. परिमृज्य प्रक्षाल्य 3. छ, तत्पुरुषायेति पादपुष्प. 4. A. मात्रे एकत्र. 5. छ. हारिभ्या 6. छ . भावच्छिष्टै. 7. ४. वारिणा संस्नाप्य. 8. . सह. 9. उत्तरे. 10. छ. अभ्यच्र्य.