पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ श्रीवैखानसे भगवच्छाखेचे काश्यपीये जानकाण्डे गच्छेत् तथा 'दीर्घस्थितमविरोधात्समवेक्ष्य नानाविधभूमिभोगानत्यन्तपुष्कलान् यत्नेन भगवत्पूजनार्थ तत्पूजकादीनामाचार्यादीनां नित्यदक्षिणार्थञ्च कल्पयित्वा अभीष्टान् सर्वान् चिरमवाप्नोति । तथा भोगम् । अज्ञानादर्थलोभान्मोहाद्वा न कुर्याच्चेतू महादोषो भवेत् । देवार्थं कल्पितं सुवर्णपशुभूम्यादिसर्व मन्यत द्रयञ्च विष्णोरेिद' मितेि सञ्चिन्त्याऽऽचार्यहस्ते अर्चकहस्ते वा जले नैव दद्यात् । तत्सर्वं विष्णोर्दतमेव भवेत् । 5येन यत्रैव पतेत्तस्य तत्पात्र मित्याहुः । नरके पतनत्राणात् सर्वपात्राणामुत्तमो हरेि । तस्मादेवं तदर्थ दानं तद्दातुः सर्वकामदमक्षय्यं वर्धयेत् जगतश्च हितं भवति । सर्वदेवमयस्य देवेशस्यार्चन सर्वशान्तिकरं वेदानां वैदिकानामप्यभिबहणम् । एतदेवं यत्नेनापि भक्तया यः कुर्यात् स पुत्रदारक्षेत्रमित्रस्वकुलपशुभृत्यवाहनादिसमृद्धिं सुवर्णरत्नधान्यादिसर्वसम्पदे व्याध्याद्यशुभनाशनञ्च लव्ध्वाऽभीष्टानेि सर्वाणि सुरूवानि इह लोके चिरमनुभूय तदत्ययं शाश्वत देवैरप्यनभिलक्ष्यं अतीन्द्रियं वैष्णवं 'परमं पदं गच्छतेि । 8 तस्यैकविंशति पितरः पूर्वजात्रैकविंशत्यपरजाताश्च विष्णुलोके महीयन्त इति ब्रह्मवादिनो वदन्ति । ग्रामादिषु तद्वास्तुतिवासिनः सर्वेऽप्येवमेव तत्फलं सर्वसम्पदमशुभन्नाशन मग्निहोत्रफलञ्च चिरमनुभवन्ति यत्नादप्येतत्परिपालनमुपर्यधिकविवर्धन वा यः कुर्यात्सोऽपि प्रथमेष्ट कादिसर्वकर्मफलं लभेतेति विज्ञायते । । इति श्रीवैखानसे कश्यपप्रोक्ते ज्ञानकाण्डे महाप्रतिष्ठाविधिनम अष्टषष्टितमोऽध्यायः ।। १. छ. दीर्घस्थितिविरोधान् नानाविधविभूतिगोदानाज्ञात्यन्तफलान्चत समवेष्टय भगवत्पूजनार्थ A. नानाविधभूतिगोदानाद्यनन्तफलान्वित. म. दीर्घस्थित्यविरोधात् .2. क भूमिरूपण्डं कल्पयित्वा . 3. देवदेवस्य. 4. छ. अभीष्ठान् कामान् सुचिरं कालमबा- प्रोति. 5. इतो वाक्यद्वयं A कोशेष्ध लभ्थते. 6. ट 7, पराममिति ट. कोशमात्रे 8. ट. एकविंशतिः 9. छ. लभेतेति मात्रम्.