पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे प्रवेश्य स्थापयेत् । तत्काले मथितमग्निं निधाय तदलाभे श्रोत्रियागारादाहृतं वा सर्वहोमेष्वाज्यनाघारं जुहुयुः । पञ्चाग्नीनामाघारविशेषो वक्ष्यते । श्रीवैखानस 'सूत्रोक्तौपासनाग्न्या घारविधिना सर्व कत्वा गार्हपत्यं गार्हपत्ययजदैवतं अॅ भूः पुरुषं अच्युतमिति गार्हपत्यस्य अन्वाहार्यमन्वाहार्ययज्ञदैवतं ओ भूवः पुरुषं सत्य मित्यन्वाहार्यस्य आहवनीयमाहवनीययज्ञदैवतं ओ सुवः पुरुषं पुरुषमित्या हवनीयस्य आवसथ्यं आवसन्ययज्ञदैवतं अॅ महः पुरुषमनिरुद्धमित्यावसत्थ्यस्य सभ्यं सभ्ययज्ञदैवतं अॅी जनः पुरुषं विष्णुमितेि सभ्यस्य इत्येवमावाह नजुष्टाकारस्वाहाकारैर्विशेषमाघारं विभज्य पञ्चस्वग्निषु पञ्चधैव जुहुयात् । “पञ्चधाऽग्नीन् त्यक्रमतू, विराट्झ” ष्टेति श्रुतेः । पौण्डरीकाग्नेराघारक्रमेणैवाघारं एतस्याघार भगवान् ऋवि. सूत्रे वैखानसेऽचोचत् । पूर्ववदौ पासन्नवत्सवै कत्वा पौण्डरीकं पौण्डरीकयज्ञदैवतं अॅ तपः पुरुषं वासुदेवं सत्वं परुष नारायणमितिपौण्डरीकस्य आवाहनाद्याघारान्तं जुहुयादित्यत्रिः । सभ्यादिषु

  • षट्सु च देवं ध्यायन् आज्यमुपजुहाऽऽदाय वैष्णवं हुत्वा चरुं दत्यऽभि

घार्याऽऽदाय जुहा च वैष्णवं यजेत् । अन्येषु ध्रुवेणाज्यं जुहुयात् । ‘ इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोते ज्ञानकाण्डे सर्वाग्न्याघारविधिनम त्रिषष्टितमोऽध्यायः ।। । अथ चतुष्षष्टितमोऽध्यायः ।। द्वाविंशत्प्रस्थसम्पूर्ण पक्वालर्कफलाकारं खण्डस्कृटितकालरहितं कुम्भं सङ्गृह्य ‘इन्द्र प्रणवन्तं, स्वस्तिदा विशस्प' तिरिति तन्तुना यवान्तरमावेष्ट्य 1. च. सूत्रोक्तविधिना. 2. क, अत्र सर्वश्र प्रथमोपात्तं द्वितीयान्तमग्निनाम ट. भिन्न कोशेषु न दृश्यते . 3. चय. वैखानसः 4. वासुदेवमिति पौण्डरीकस्य श्रामणकं श्रामणकयज्ञदैवतं ओं सत्यं पुरुपं नारायणमिति क. कोशे पाठः अत आवाहनादीति ग्रन्थ: 5. षट्सु भ्रामणके चेति तत्र क. कोशे पाठ: 6. प्रवेणैव.